पाणिनिसंस्कृतविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोह:सुसम्पन्नः

वार्तासंयोजकः डॉ. दिनेश चौबे

उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः मेमासस्य चतुर्विंशतितमेदिनाङ्के बुधवासरे प्रातः एकादशवादने विक्रमकीर्तिमन्दिर-देवासमार्गपरिसरस्य सभागारे समायोजितःआसीत्। मध्यप्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: श्रीमङ्गुभाई पटेलमहोदय: अवसरेsश्मिन् सर्वान् शुभकामना: प्रेषितवान् समारोहेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस्य उच्चशिक्षामन्त्री
डॉ. श्रीमोहनयादवमहोदय:, सारस्वतातिथिरूपेण भारतीयान्तरिक्षानुसंधानसङ्घ्ठनम् ( इसरो) इत्यस्य प्रमुख: श्रीमंत: श्रीधरसोमनाथमहोदय: उपस्थित: आसीत्। विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदयस्य आध्यक्षत्वे कार्यक्रमोऽयम् अभूत्। समारोहेsस्मिन्
उज्जयिनी सांसद:
श्रीअनिलफिरोजियामहोदय:, उत्तरक्षेत्रस्य विधायक: श्रीपारसचन्द्रजैनमहोदय:, विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः , विश्वविद्यालयस्य कुलसचिवः डॉ. दिलीपसोनीमहोदयाः उपस्थिताः आसन्। समारोहस्य शुभारम्भः राष्ट्रगानेन, सरस्वतीवन्दनया, विश्वविद्यालयस्य कुलगानेन च जातम् । । सारस्वतातिथिरूपेण विराजमानेन इसरो प्रमुखेण श्रीधरसोमनाथमहोदयेन उक्तम् – संस्कृतं न केवलं भाषा अपि तु ज्ञानविज्ञानस्य जननी।महर्षि पाणिनि महान् भाषावैज्ञानिकः आसीत् संस्कृतं ज्ञान-विज्ञानस्य भाषा अस्ति इयं भारतस्य आत्मा , आर्यभट्टः, भास्करः, सुश्रुतः, चरकादिदया: अनेकाः वैज्ञानिका: भारते अभवन् इति अस्माकं गौरवम्। मुख्यातिथिरूपेण मध्यप्रदेशस्य उच्चशिक्षामन्त्री डॉ. मोहन यादवमहोदय: उक्तवान् यत् देशे प्राचीनज्ञानविज्ञानमहत्त्वाधारितम् शोधकार्यस्य आवश्यकता वर्तते । विश्वविद्यालयस्य नवीनप्रकल्पानां उच्चतमस्तरे उन्नयनाय, प्रचारप्रसाराय च वयं
सङ्कल्पिता: स्म:। विश्वविद्यालयेन सह संस्कृतस्य संवर्धनम् अस्माकं कर्तव्यं शासनेन् सर्वविधसहयोग:करिष्यते। कार्यक्रमे अध्यक्षरूपेण उपस्थित: विश्वविद्यालयस्य मान्य: कुलपति: आचार्य विजयकुमारमेनन्महोदयेन्नोक्तं यत् संस्कृतं विज्ञानस्य भाषा विश्वविद्यालय: संस्कृतस्य विकासायप्रचारप्रसारय च् कटिबद्ध: अस्ति कुलपतिवर्येण वार्षिकं प्रतिवेदनं छात्रान् दीक्षान्त उपदेशं च दत्तवान् दीक्षान्तसमारोहे विक्रमविश्वविद्यालयस्य कुलपति: डॉ. अखिलेश
कुमारपाण्डेयमहोदय:, कुलसचिवः डॉ. प्रशान्तपौराणिकः, कुलानुशासकः आचार्य: शैलेन्द्रपाण्डेयमहोदय: कालिदाससंस्कृतआकादमी निदेशक: डॉ संतोषपंडया अन्ये गणमान्याः च समुपस्थिताः आसन् ।
संस्कृतविश्वविद्यालयेन विंशतिमहाविद्यालयाः सम्बद्धाः सन्ति । तेषु ९ शासकीयाः, ११ अशासकीयाः सन्ति । २०२१-२२ तमेसत्रे स्नातकस्नातकोत्तर पत्रोपाधिपरीक्षासु उत्तीर्णाः १३९७ छात्राः उपाधिं प्राप्तवन्त:। प्रावीण्यसूच्यां प्रथमद्वितीयतृतीयस्थानप्राप्तछात्राः स्वर्ण-रजत-कांस्यपदकैः सम्मानितो जाता: । एवञ्च विद्यावारिधिच्छात्राः अतिथिनां करकमलाभ्याम् उपाधिं प्राप्तवन्तः । तत्र महर्षिपतञ्जलिसंस्कृतसंस्थानं भोपालं मध्यप्रदेशस्य अध्यक्षः आदरणीयः भरतबैरागीमहोदय: विश्वविद्यालयस्य माननीय; कुलपति: आचार्यविजयकुमार: सीजीवर्य: ,कुलसचिव: डॉ. दिलीपसोनीमहोदय: कार्यपरिषद् सदस्याः प्रमाणपत्रवितरणं कृतवन्तः । कार्यक्रमस्य सञ्चालनं विश्वविद्यालयस्य साहित्यविभाग प्रमुखेन डॉ. तुलसीदास परौहामहोदयेन कृतम् । समारोहे पाणिनिविश्वविद्यालयस्य- विक्रम विश्वविद्यालयस्य अध्यापकाःअधिकारिणः कर्मचारिण: पत्रकारवान्धवाश्च समुपस्थिताः आसन् आभारप्रदर्शनं कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम् ।