आमिर रजा हुसैन: पञ्चतां गतः

रंगमञ्चस्य प्रख्यातः अभिनेता निर्देशकश्च आमिर रजा हुसैन: पञ्चतां गतः। सः षड्षष्टिः वर्षीयः आसीत् । सः कारगिलयुद्धाधारित द फिफ्टी डे वॉर, अथ च द लीजैण्ड ऑफ राम इत्यनयो: नाटकयो: प्रसिद्धः अभिनेता आसीत्। रंगमञ्चे विशिष्ट योगदानाय भारत- प्रशासनेन तं पद्मश्री इति उपाधिं प्रदत्तः । आमिर रजा हुसैन: बाहुबली अथ च आर. आर. आर.- इत्यनयो: प्रसिद्ध चलचित्रयोः अभिनयं कृतवान् आसीत् ।