साधु स्वभावः (लघु कथा)

साधुः स्व-प्रकृतेस्त्यागं कुरुते न कदाचन । एतद्-वैवश्यतस्तस्य, लाभं गृह्णाति को नहि ? ॥
एकस्मिन् उपवने स्थिताः आम्रवृक्षाः परस्परं वार्तालापं कुर्वन्तः आसन् यत् “मनुष्याः तेषां पक्वानि फलानि त्रोटयित्वा नयन्ति, परन्तु कृतज्ञतायाः एकम् अपि शब्दं तान् प्रति नैव कथयन्ति । अहो ! तेषाम् इमां कृतघ्नतां धिक् धिक् !” वृक्षाणां समीपतः निःसरन् कश्चित् पथिकः तेषाम् इमां वार्तां श्रुतवान्, किञ्चित् तत्र स्थित्वा च तान् अब्रवीत्- “अस्मिन् भवद्भ्यः कृतज्ञतायाः प्रकाशनस्य का वार्त्ता? भवतां स्वभावः फलोत्पादनम्। तद् भवद्भिः क्रियते, करिष्यते अपि च एव । इयं भवदीया विवशता । पुनः विवशतायाः लाभं कः न गृह्णाति ?” इति कथयित्वा सः अग्रे प्रस्थितः इति ।