राष्ट्रपति द्रौपदी मुर्मू सूरीनाम तथा सर्बिया भ्रमण:

राष्ट्रपति पदासीना द्रौपदी मुर्मू: सूरीनाम सर्बिया देशयोः आधिकारिक यात्रायां वर्तते। द्रौपदी मुर्मू: सूरीनाम राष्ट्रपतेः चन्द्रिकाप्रसादसन्तोखी इत्यस्य निमंत्रणं अवाप्य तदीयं सूरीनामदेशं गतवती। सूरीनामस्य राष्ट्रपतिना चन्द्रिकाप्रसादसन्तोखी इत्येतेन राजकीय सम्मान पुरस्सरं तस्याः स्वागतं विहितम्। अवसरेऽस्मिन् सूरीनामस्य प्रथमा महिला मेलिसासन्तोखी सिनाचेरी अपि उपस्थिता आसीत्। द्रौपदी मुर्मू: सूरीनाम राष्ट्रपतिना सह द्विपक्षीयं प्रतिनिधिमण्डलस्तरीयवार्तां कृतवती। स्वास्थ्यक्षेत्रे कृषिक्षेत्रे च त्रीणि ज्ञापनपत्राणि, अपि द्वयोः देशयोः मध्ये हस्ताक्षरितानि। एतेषु पत्रेषु त्रयोविंशत्यधिक द्विसहस्रवर्षतः सप्तविंशत्यधिकीद्वसहस्रवर्षं यावत् कृषिसम्बद्धक्षेत्रेषु सहकार्यस्य संयुक्तकार्ययोजना अन्तर्भवति। सूरीनाम देशे भारतीयानां आगमनस्य पञ्चाशदीधकैकशत वर्षाणां परिपूर्तेः विशिष्टे उत्सवे राष्ट्रपतिः मूख्यातिथित्वेन आमन्त्रिता अस्ति। सूरीनामतः सा जूनमासस्य ७ तः ९ पर्यन्तं द्वितीयं अन्तिमं च चरणं कर्तुं यूरोपदेशस्य सर्बियादेशं गमिष्यति। अस्य भ्रमणस्य ऐतिहासिकं महत्त्वं भवति यतः राष्ट्रपतिः सूरीनाम-देशे भारतीयानां आगमनस्य १५० वर्षस्य उत्सवस्य मुख्यातिथिः भविष्यति । द्विपक्षीयसम्बन्धानां उच्चतमस्तरस्य पोषणस्य आवश्यकता वर्तते इति अनुभूतम् ।