प्रधानमन्त्री नरेन्द्र मोदी अद्य नूतन-संसत्भवनं राष्ट्राय समार्पयत्। संसत्भवनात् स्वीय प्रथमे सम्बोधने प्रधानमन्त्री नवीनं संसत्भवनं नियत्या सह एकं नूतनं प्रयासम् अवोचत्। सेनोक्तं यदा भारतम् अग्रे वर्धते तदा विश्वम् अग्रे वर्धते। अमुना टिप्पणी कृता संसदो नूतनं भवनं भारतस्य विकासेन साकं जगतो विकासस्य आह्वानं करिष्यति। नूतन-संसत्-भवनस्य लोकसभा-कक्षात् राष्ट्र सम्बोधन श्रीमोदी सबलम् अवोचत् यदिदं न केवलं भवनम् अस्ति। एतत् आत्मनिर्भर-भारतस्य चत्वारिंशदुत्तरैक-शत-कोटि-भारतीय-जनानाम् आकाङ्क्षायाः स्वप्नानां च प्रतिबिम्बमस्ति । इदं विश्वाय भारतस्य सङ्कल्पस्य सन्देश प्रदातृ-लोकतन्त्रस्य मन्दिरं वर्तते। श्रीमोदिना एतत्सबलमुक्तं यत् अद्य प्रत्येकं भारतीयः नूतन- संसत्-भवनं दृष्ट्वा गौरवान्वितो वर्तते। प्रधानमन्त्रिणोक्तं यत् अस्माकं लोकतन्त्रम् अस्माकं प्रेरणास्ति। अस्माकं संविधानं च अस्माकं सङ्कल्पः । अस्याः प्रेरणायाः अस्य सङ्कल्पस्य च प्रतिनिधिः अस्माकं संसत् वर्तते। श्रीमोदिना सेङ्गोलस्य महत्त्वं प्रकटयता प्रोक्तं यत् अस्मिन् संसत्-भवने यदापि कार्याचरणम् आरप्स्यते तदा सेङ्गोलः अस्मान् प्रेरयिष्यति । श्रीमोदी अवोचत् यत् पराधीनतायाः समये बहूनाशात् परं भारतेन स्वीया नवीना यात्रा प्रारब्धा। समाह्वानानन्तरं च एषा यात्रा स्वतन्त्रतायाः स्वर्ण-युगे प्रविष्टा ।











