रेलमंत्रालयेन ओडिशायाः बालासोरजनपदे सञ्जाते दुर्दान्त-रेलदुर्घटनामाधृत्य केन्द्रीय अन्वेक्षण-विभागं निरीक्षणाय निवेदनं कृतमस्ति। वार्ताहरैः सह संवादं कुर्वन् रेलमन्त्री अश्विनी वैष्णवः प्रोक्तवान् यत् रेलपरिषदा दुर्घटनायाः कारणानां अभिज्ञातुं उपस्थितजनानां दायित्वहीनतामभिलक्ष्य केन्द्रीय अन्वेक्षण विभागं निरीक्षणं कर्तुं निवेदनं कृतवानस्ति। ओडिशायाः मुख्यसचिवः प्रदीपजैना प्रोक्तवान् यत् अस्यां दुर्घटनायां मृतकानां संख्याः पञ्चसप्तत्यधिकद्विशतमिताः सञ्जाताः अस्ति। असौ प्रोक्तवान् यत् तेषु जनेषु अष्टाशीतिः जनाः अभिज्ञापिताः। अन्येषां जनानां अभिज्ञानाय प्रयासः सजवं प्रर्वतते । गतरात्रौ केन्द्रीय स्वास्थ्य एवं परिवार कल्याण मन्त्री मनसुख मांडविया, रेलमन्त्री अश्विनी वैष्णवः, शिक्षामन्त्री धर्मेन्द्र प्रधानः च व्रणितानां स्वास्थ्यभिलक्ष्य कटकस्य एस.सी.बी. चिकित्सालये सम्प्राप्ताः ओडिशायाः मुख्यमन्त्री नवीनपटनायकः पुरी, भुवनेश्वरम् कटकः च नगरेभ्यः कोलकातां प्रति गमनागमनाय निशुल्कं यातायात- सौविध्यानां घोषणां विहितास्ति । यातायातं सामान्यं यावत् सेवा इयं प्रचलिष्यति। ओडिशायाः मुख्यमन्त्री नवीन पटनायक: रेलदुर्घटनायां मृतकानां परिजनेभ्यः पञ्चलक्षमितात्मिकां अनुग्रहराशिं दातुं समुद्घोषितवान्। एतदतिरिच्य मुख्यमन्त्रिणा गभीररूपेण व्रणितयात्रिभ्यः अपि एकलक्षमितात्मिका अनुग्रहराशिं समुद्घोषिता । ओडिशायाः मुख्यसचिव: प्रदीप जैनानुसारं रेल दुर्घटनायां पञ्चसप्तत्यधिक द्विशतयात्रिणः मृताः, सहैव पञ्चसप्तत्यधिकैकशतोत्तर- सहस्त्रयात्रिणः उपचारारार्थ ओडिशायाः विभिन्नचिकित्सालयेषु संप्रेषिता: सन्ति। ओडिशासर्वकारेण रेलदुर्घटनायां मृताः षष्ट्यधिकैकशतं अज्ञातशवा: भुबनेश्वरस्य शवगृहेषु स्थानान्तरिताः । राज्यस्य मुख्यसचिवः प्रदीपजैन: वार्ताहरान् प्रोक्तवान् यत् एतावता अष्टसप्ततिः देहाः तेषां परिजनेभ्यः प्रदत्ताः सन्ति, ओडिशासर्वकारेण अद्य व्रणितानां सूचि: srcodisha.nic.in, bmc.gov.in एवं osdma.org इति वेबफलके संस्थापिता वर्तते। मृतकयात्रिणाम् अभिज्ञानार्थं तेषां सूचि: छायाचित्रेण सह वेबफलकेऽपि संस्थापितास्ति।











