2014 तमे वर्षे, सितम्बरमासस्य 27 तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः (यू.एन.जी.ए.) 69 तमं सत्रम् उद्बोधयन् भारतस्य माननीयप्रधानमन्त्री श्रीमान् नरेन्द्रमोदीवर्यः अन्ताराष्ट्रिय-योगदिवसस्य आचरणं कर्तुम् विश्व- समुदायस्य आह्वानं कृतवान् ।
श्रीमान् मोदीवर्यः उक्तवान् –
“योगः प्राचीनभारतीयपरम्परायाः संस्कृतेश्च अमूल्यम् उपायनं वर्तते। योगाभ्यासः शरीर-मनसोः, विचार-कर्मणोः, आत्मसंयमपूर्णतयोः एकात्मताभावं जनयति; तथा च प्रकृति-मानवयोः मध्ये सामञ्जस्यं (सामरस्यम्) उपस्थापयति।
अयं योगः स्वास्थ्यस्य स्वस्थजीवनस्य च समग्रदृष्टिकोणं बोधयति। योग: न केवलं व्यायाममात्रम् अपितु स्वात्मना सह विश्वप्रकृत्योः एकत्वान्वेषणस्य भावः वर्तते। योगः अस्माकं जीवनशैलीं परिवर्त्य अस्माकम् अन्तर्भावं जागरयति । एवं च योग: ऋतुपरिवर्तनेन / प्राकृतिकपरिवर्तनैः शरीरे जायमानं प्रभावं सोढुं सामर्थ्यं दद्यात्। आयान्तु! वयं सर्वे मिलित्वा दिनमेकम् अन्ताराष्ट्रिययोगदिवसरूपेण निश्चेतुं / समाचरितुं कार्यं कुर्मः” इति ।
2014 तमे वर्षे दिसम्बरमासस्य 11 तमे दिनाङ्के संयुक्तराष्ट्रमहासभायाः 193 सदस्येषु 177 सदस्या: 21 जून इति दिवसम् अन्ताराष्ट्रिययोगदिवसरूपेण आयोजयितुम् अभूतपूर्वं सम्मति प्रकटितवन्तः। स्वस्य संकल्पे संयुक्तराष्ट्र- महासभया अङ्गीकृतं यत् योगः स्वास्थ्यं,
स्वस्थजीवनं च उद्दिश्य समग्रां दृष्टिं प्रयच्छति। योग: विश्वे सर्वेषां स्वास्थ्याय अपि च तेषां लाभाय महान् उपकारकः भवेत्। योगः जीवनस्य सर्वेषु पक्षेषु सामञ्जस्यम् आनयति। अत एव योग: रोगनिराकरणाय, स्वास्थ्यवर्धनाय, जीवनशैली-सम्बद्धानां विकाराणां प्रबन्धनाय च उपकरोति इति ख्यातिः वर्तते। इयं वार्ता: योगस्य योगाभ्यासस्य च विषये सङ्क्षिप्तं विवरणं प्रदातुं निर्मिता वर्तते। एतदुपयोगेन जन: स्वस्य, समुदायस्य च व्यापकस्वास्थविषये दत्तचित्तः भूत्वा तदर्थं प्रवृत्तः स्यात् ।
को नाम योगः ?
समासेन वदामः चेत् योगो नाम आध्यात्मिकानुशासनम् आधृत्य विद्यमानं सूक्ष्मविज्ञानं वर्तते तज्ज्ञानं यत् शरीरमनसोः मध्ये सामञ्जस्यं बोधयति । योगः स्वस्थजीवनस्य कला विज्ञानञ्च वर्त्तते। संस्कृतव्याकरणनये युज्-धातुना घञ्- प्रत्यययोगे निष्पन्नोऽयं योगशब्दः । पाणिनीयव्याकरणानुसारेण योगशब्दः अर्थत्रये प्रयुक्तो भवति।
- युज्-समाधौ – समाधि इत्यर्थे ।
- युजिर्-योगे – योग इत्यर्थे ।
- युज्-संयमने – नियमने (सामञ्जस्ये)।
यौगिकग्रन्थानुसारेण योगोऽयं व्यक्तिगतचैतन्यस्य (व्यष्टिचैतन्यस्य) सार्वभौमिकचैतन्येन (समष्टिचैतन्येन) सह ऐक्यं सम्पादयति । आधुनिकवैज्ञानिकानां मतानुसारेण ब्रह्माण्डे यत् किञ्चिदपि अस्ति तत् सर्वं तस्यैव सूक्ष्मघटकस्य (परमाणोः) व्यक्तावस्था एव। येन अस्तित्वस्य (समग्रसत्तायाः) एतादृशी एकता अनुभूयते सः योगस्थः योगी इत्युच्यते । सः खलु योगी यः मुक्तिः, निर्वाणं, कैवल्यं मोक्षः इत्यादिशब्दैः उच्यमानां पूर्णस्वतन्त्रतां (सर्वतन्त्र – स्वतन्त्रतां) प्राप्नोति ।
आन्तरिकविज्ञानरूपेणापि ‘योगः’ इत्यस्य प्रयोगः परिदृश्यते, यत्र शरीरमनसोः सामञ्जस्यस्थापनाय आत्मसाक्षात्काराय च उपयुक्तानां विविधप्रक्रियाणां वर्णनमस्ति । त्रिविध-दुःखेभ्यः आत्यन्तिकी निवृत्तिरेव योगाभ्यासस्य प्रमुखोद्देश्यमस्तियां निवृत्तिं प्राप्य मनुष्यः जीवने विविधासु अवस्थासु पूर्णस्वतन्त्रतां, समग्रस्वास्थ्यं, सामञ्जस्यं च अनुभवेत्।
योगशास्त्रस्य संक्षिप्तेतिहासो विकासश्च
योगविद्यायाः आविर्भावः विविधमतपरम्पराणाम् उत्पत्तितः प्राक् सहस्राब्देभ्यः पूर्वमेव अभूत्। ऋषिभिः योगिभिः एषा महती योगविद्या एशिया मध्यपूर्वदेश- उत्तराफ्रीका-दक्षिण-अमेरिका-प्रभृतिषु विश्वस्य नानादिक्षु प्रसारिता। रोचक तथ्यमिदमस्ति यत्- जगति विद्यमानासु प्राचीनसंस्कृतिषु यत् सादृश्यं प्राप्यते, तत् दृष्ट्वा पाश्चात्त्य-विद्वांसोऽपि चकिताः सञ्जाताः। किन्तु, भारतभूमौ एव योगविद्यायाः पूर्णतया अभिव्यक्तिर्जाता। भारतीयोपमहाद्वीपेषु परिभ्रमितृभिः सप्तर्षिभिः, अगस्त्य- मुनिना च तत्र तत्र एषा योगसंस्कृतिः जीवनपद्धतौ अवतारिता।
योगस्य आधारभूतानि/मूलभूतानि तथ्यानि
योग: मानवस्य स्थूलशरीरं मनः, भावनां, चैतन्यं च प्रभावयति। तदाधारेण योगस्य चतुर्धा विभागः कल्पितः दृश्यते कर्मयोग, ज्ञानयोग, भक्तियोगः क्रियायोगश्चेति । अत्र कर्मयोगे शरीरस्य प्रयोगः, ज्ञानयोगे मनसः प्रयोग, भक्तियोगे भावनायाः प्रयोगः क्रियायोगे ऊर्जायाश्च प्रयोगः अस्माभिः क्रियते । अस्माभिः अनुस्त्रियमाणः यः कोऽपि योगाभ्यासप्रकार: उपर्युक्तविभागेषु क्वचिदपि अन्तर्भवति । प्रत्येकं व्यक्तिः उपर्युक्तानां चतुर्णां योगकारकाणाम् अनुपमा संयुक्तिः अस्ति।
सुयोग्यगुरुरेव योग्यसाधकानां कृते तदावश्यकमूलभूतानां योगमार्गाणां सम्यक् संयोजन कारयितुं शक्नोति। योग्यगुरोः मार्गदर्शने योगसाधना करणीया इति योगशास्त्रीयग्रन्थानां प्राचीनव्याख्यासु प्रतिपादितमस्ति ।
योगाभ्यासाय सामान्यदिशानिर्देशाः
योगाभ्याससमये योगाभ्यासिभिः अधोलिखितदिशानिर्देशाः सिद्धान्ताः च अवश्यं पालनीयाः ।
अभ्यासात् पूर्वम्-
1- शौचम्- शौचस्यार्थोऽस्ति शुद्धिः:/शोधनम् । इयं योगाभ्यासात् पूर्वम् अपेक्षिता महत्त्वपूर्णा स्थितिः । अत्र योगासनकरणस्थानपरिवेशशुद्धिः, शरीरस्य मनसः च शुद्धिः अन्तर्भवति ।
2- योगाभ्यासः प्रशान्तवातावरणे शारीरिक-मानसिक-व्याकुलतारहित- योगाभ्यासः रिक्तोदरेण अत्यल्पाहारपूर्वकं वा कर्तव्यः। यदि शक्तिहीनता स्थितौ एव कर्तव्यः।
(दौर्बल्यम्) अनुभूयते तर्हि जले मधु योजयित्वा पिबेत् ।
3- योगाभ्यासः मलमूत्रयो: विसर्जनात् परमेव आरब्धव्यः।
4- अभ्यासाय आस्तरणादीनां समुपयोगः कर्तव्यः।
5- अभ्याससमये शरीरस्य अङ्गानि चालयितुम् अनुकूलकराणि सरलानि कार्पासवस्त्राणि धरणीयानि ।
6- श्रान्तता रुग्णता – शीघ्रता-अतिव्याकुलता इत्यादिस्थितौ योगासनानि न कर्तव्यानि ।
7- यदि पुरातनरोग:, पीडा हृदयसम्बद्धसमस्याः च सन्ति तर्हि योगाभ्यासात्पूर्वं चिकित्सकस्य योगशिक्षकस्य वा परामर्श: स्वीकर्तव्यः।
8- गर्भावस्थायाः मासिकधर्मस्य वा काले योगाभ्यासः कर्तव्यः चेत्यो गविशेषज्ञानां परामर्शः प्राप्तव्यः ।
अभ्याससमये.
1- अभ्याससत्र प्रार्थनया स्तुत्या वा प्रारम्भणीयम्। यतः प्रार्थना स्तुतिः वा मनसः प्रशमनाय / प्रसन्नतायै अनुकूलवातावरणं कल्पयति ।
2- शनै: शनै:, प्रसन्नभावेन, शरीरस्य श्वास-निःश्वासप्रक्रियायाः च विषये अवधानपूर्वक योगाभ्यासः करणीयः ।
3- अभ्याससमये श्वास- निःश्वासयोः गतिः न स्थगनीया, यावत् एवं विधातुं विशेषेण न उच्येत । यावत् अन्यविधिना श्वास- नि:श्वासान् कर्तुं न निर्दिश्यते तावत्
4- श्वास- निःश्वासक्रिया सदैव नासारन्ध्रमाध्यमेन एव भवेत्।
5- अभ्याससमये शरीरम् अनम्यतया कठोरतया दृढं निगृह्य न स्थापनीयम्, न वा अनावश्यकरूपेण अकस्मादेव व्यायामगतिम् अवरुध्य अङ्गप्रक्षोभ उत्पादनीयः । स्वशारीरिक-मानसिक क्षमतानुगुणमेव योगाभ्यासः कर्तव्यः।
6- योगाभ्यासस्य सत्परिणाम प्राप्तुं समयः अपेक्षितः । अतः निरन्तरं नियमिताभ्यासः अत्यन्तम् आवश्यकः ।
7- प्रत्येक योगाभ्यासास्य अवसरे अवधेयाः निर्देशाः (विधि-निषेधा:)/ परिमितयः च भवन्ति । तादृशाः नियमाः /विधिनिषेधाः अवश्यं मनसि धारणीयाः ।
8- ध्यानम्/ गहनमौनम् / सङ्कल्पः / शान्तिपाठः इत्यादिना योगाभ्याससत्रस्य समापन (उपसंहारः) भवेत्।
अभ्यासात्परम्
1- योगाभ्यासानन्तरं 20-30 निमेषेभ्यः परमेव स्नानं कर्तव्यम्।
2- योगाभ्यासानन्तरं 20-30 निमेषेभ्यः परमेव आहारग्रहणं कर्तव्यम्, न तत : पूर्वम्।
योगः कथम् उपकारकः ?
मूलतः योग: विविध-प्रापञ्चिकबन्धनेभ्यः मुक्ति प्राप्तुं साधनं वर्तते। तथापि, अधुनातनैः चिकित्सकीय शोधकार्यैः योगाभ्यासेन जायमानाः शारीरिकमानसिक- लाभाः प्रकाशिताः। लक्षश: योगाभ्यासिनाम् अनुभवानाम् अनुशीलनपुरस्सरं तादृशानि शोधकार्याणि प्रवृत्तानि । तादृश- शोधोपलब्धयः प्रस्तुवन्ति यत् –
शारीरिकदृढतायै स्नायुतन्त्रस्य नरमण्डलस्य/ पेशीसमूहस्य अस्थि-
संरचनायाः च क्रियाशीलतासंरक्षणाय, हृदय-हृदयसम्बद्धशिराधमनी- नाडीनां स्वास्थ्याय कल्पते योगाभ्यासः ।
मधुमेहस्य, श्वासरोगविकाराणाम्, उच्चरक्तचापस्य, निम्नरक्तचापस्य, जीवनशैलीविकारेण उत्पन्नरोगाणां नियन्त्रणे योगाभ्यासः च लाभदायकः वर्तते।
अवसादं श्रान्तता चिन्ताविकार, मनः क्लेशं च न्यूनीकर्तुं योगाभ्यासः सहायक: वर्तते।
मासिकधर्मसमस्याः रजोनिवृत्तिसम्बद्धसमस्याः च नियन्त्रयितुं योगाभ्यासः उपकारको वर्तते।
संक्षेपेण इदं वक्तुं शक्यं यत् योगो नाम समृद्ध परिपूर्ण जीवनस्य साधनरूपस्य शरीरस्य, मनसः च सज्जीकरणप्रक्रिया वर्तते न तु उन्नतेः अवरोधकः इति ।











