राष्ट्रपतिः द्रौपदीमुर्मू-वर्या गढ़चिरौलीजनपदस्य गोंडवाना विश्वविद्यालयस्य प्रशंसां कृतवती प्रोक्तवती च विश्वविद्यालयेन बहुसंख्यायां जनजातीयविद्यार्थिभ्यः शिक्षा प्रदत्ता ।

राष्ट्रपतिः द्रौपदीमुर्मू-वर्या गोंडवाना-विश्वविद्यालयस्य छात्राणां उपलब्धिनां प्रशंसां कृतवती सहैव तया एषः महिला सशक्तीकरणस्य दिशि महत्वपूर्णः पदक्षेपः इति प्रतिपादितः । सा गोंडवाना- विश्वविद्यालयस्य दशमं दीक्षांत समारोहं संबोधयन्ती आसीत् । राष्ट्रपतिः आशां प्रकटितवती यत् छात्राभिः दीक्षांत समारोहे बृहत्-संख्यायां स्नातकोपाधयः ग्रहणेन स्वर्णपदक प्राप्तेन च अन्य-बालिकाः प्रेरणां प्राप्स्यन्ति । अद्य जाते दीक्षांत समारोहे स्नातकेषु पञ्चचत्वारिंशत्-प्रतिशतं स्वर्णपदक विजेतृषु च एकषष्टि-प्रतिशततः अधिकाः छात्राः सम्मिलिताः आसन् ।
राष्ट्रपतिः मुर्मू प्रोक्तवती यत् गोंडवाना-विश्वविद्यालयः शिक्षामाध्यमेन जनजातीय उपेक्षित- विद्यार्थिभ्यः नवीनान् अवसरान् प्रदास्यति । सा प्रोक्तवती यत् विश्वविद्यालयः वनसंसाधन, खनिजसंसाधन, जनजातीय समुदायानां कला, स्थानीय-कलाविकास चेत्यादीनां संरक्षणाय कार्यं करोति । महाराष्ट्रस्य गढ़चिरौली इत्यत्र स्थिते गोंडवाना विश्वविद्यालये बृहत् संख्यायां जनजातीय-विद्यार्थिनः शिक्षां प्राप्नुवन्ति ।
अस्मिन् अवसरे महाराष्ट्रस्य राज्यपालः रमेशबैसः, केंद्रियमंत्री नितिनगडकरी, महाराष्ट्रस्य उप- मुख्यमंत्री देवेंद्रफडणवीसः, विश्वविद्यालयस्य कुलपतिः डॉक्टर प्रशांतबाकरे च उपस्थिताः आसन्। दीक्षांत समारोहं संबोधयन्ती राष्ट्रपतिः प्रोक्तवती यत् बंस-शिल्प, वनप्रबंधन चेत्यादयः पाठ्यक्रमाः गोंडवाना-विश्वविद्यालये समारब्धाः यैः अनुभवाधारित शिक्षणाय प्रोत्साहनं प्रदातुं शक्यते । सा प्रोक्तवती यत् विश्वविद्यालये जनजातीय अनुसंधान केंद्रं कार्यं करोति । राष्ट्रपतिः प्रोक्तवती यत् बृहत्-संख्यायां जनजातीय जनपदाः आकांक्षि जनपदाः इति घोषिताः । सा प्रोक्तवती यत् एतेषां जनपदानां विकासाय सामूहिक प्रयासाः अनिवार्याः सन्ति । अस्मिन् अवसरे राष्ट्रपतिना दृश्यश्रव्य अन्तर्जालीय माध्यमेन अल्लापल्लीनगरे गोण्डवानाविश्वविद्यालयस्य प्रशासनिकभवनस्य आधारशिला अपि स्थापिता। क्षेत्रसांसद अशोक नेते विश्वविद्यालयस्य कुलपतिः डॉ. प्रशांत बोकारे च गत मई मासस्य १० दिनाङ्के राष्ट्रपति मुर्मू इत्यस्य गडचिरोली आगन्तुं आमन्त्रितवन्तः आसन्।