भारतं विश्वे सर्वतो न्यूनं कार्बनोत्सर्जनं कृत्वा ऊर्जा-परिवर्तनक्षेत्रे विश्वस्य नेतृत्वं करोति । इयं सूचना ऊर्जामन्त्री आर. के. सिंहः अद्य नवदिल्ल्यां हरितहाइड्रोजन इत्यस्मिन् विषये प्रथमांतराष्ट्रिय सम्मेलनं उद्घाटयन् दत्तवान् । श्रीसिंहः प्रोक्तवान् यत् देशेन त्रिंशदुत्तर- द्विशततमाब्दं यावत् कार्बनोत्सर्जने सकलगृहोत्पादस्य त्रिंशत्-प्रतिशतं यावत् उत्सर्जनं न्यूनं कर्तुं लक्ष्यं स्वीकृतमासीत् यत् नववर्षपूर्वमेव प्राप्तमस्ति । सः प्रोक्तवान् यत् सर्वकारः एलईडी-इति गोलदीपैः सम्बद्धां ऊर्जायोजनां समेत्य विभिन्नकार्यक्रमान् संचालयति ये विश्वे कार्बनोत्सर्जनं न्यूनं कर्तुं सकारात्मकदिशि प्रामुख्यं भजन्ति । श्रीसिंहः इदमपि प्रोक्तवान् यत् भारतेन राष्ट्रियस्तरे निर्धारितयोगदानं प्रदातुं कॉप-21 इत्यस्य लक्ष्यानि अपि समयात् नववर्षपूर्वमेव प्राप्तानि सन्ति । नवीकरणीयोर्जायाः क्षेत्रे भारतस्य उपलब्धिषु बलं यच्छन् मंत्री वैश्विकोद्योगजगत् सम्प्रार्थितवान् यत् तत् भारतस्य राष्ट्रिय-ग्रीन- हाइड्रोजन अभियानेन सह प्रतिभागं कुर्यात्।
दिवसत्रयाणां सम्मेलनस्य लक्ष्यं ग्रीनहाइड्रोजन इति-प्रणाल्याः स्थापनायै विचार-विमर्शयोः आवश्यकतंत्रस्य च स्थापना करणीया अस्ति । अस्मिन् ग्रीनहाइड्रोजन- इत्यस्य सहयोगेन कार्बनोत्सर्जनस्य लक्ष्यम् अधिगन्तुं व्यवस्थित-दृष्टिकोणं विकसितं कर्तुं च विचारः करिष्यते ।











