अधिसूचनानुसारं एतेषु पदेषु नियुक्त्यर्थं पीएच.डी. योग्यता इदानीं वैकल्पिकं भविष्यति।
विश्वविद्यालय अनुदान आयोग- यूजीसी इत्यनेन सर्वेषु उच्चशिक्षणसंस्थानेषु सहायकप्राध्यापकानां नियुक्तिविषये नूतनाः नियमाः प्रकाशिताः। उच्चशिक्षणसंस्थानेषु सहायकप्राध्याकानां प्रत्यक्षनियुक्त्यर्थं न्यूनतमयोग्यतायाः कृते नेट इति राष्ट्रियपात्रतापरीक्षा, एसईटी इति राज्यपात्रता परीक्षा तथा एसएलईटी इति राज्यस्तरीयपात्रतापरीक्षा च अनिवार्याः कृताः सन्ति ।
यूजीसी इत्यस्य अधिसूचनानुसारं एतेषु पदेषु नियुक्त्यर्थं पीएच.डी. योग्यता इदानीं वैकल्पिकं भविष्यति। एकविंशत्युत्तर- द्विसहस्रतमे वर्षे पूर्व विश्वविद्यालयानुदान आयोगेन घोषितं यत् अस्मिन् वर्षे जुलैमासपर्यन्तं सहायकप्राध्यपाकानां प्रत्यक्षनियुक्त्यर्थं पीएच.डी. उपाधिः अनिवार्या नास्ति ।











