समान नागरिक संहितायाः विषये संसदीय स्थायि समितिः चर्चा करोति ।

समान-नागरिक संहितायाः विषये संसदीय स्थायि समितिः अद्य चर्चा करोति। समितेः अध्यक्षः भारतीय जनता पार्टीति दलस्य राज्यसभा सांसदः सुशील मोदी विज्ञापितवान् यत् समितिः अस्मिन् प्रकरणे सम्बद्ध पक्षाणां विचारान् अभिज्ञास्यति। सर्वेषां परामर्श: याचयिष्यते। तेनोदीरितं यत् उपवेशनेऽस्मिन् सर्वे राजनैतिक दलीय सदस्याः सम्मिलिताः भविष्यन्ति। समान नागरिक- संहितायां नागरिकेभ्यः समान-विधेः निर्माणम् एवञ्च तस्य कार्यान्वयनस्य प्रस्तावः वर्तते । इयं संहिता धर्म-लिङ्गाधारेण भेदभावं विना समेषां नागरिकाणां कृते समानरूपेण कार्यान्विता भविष्यति। साम्प्रतं देशे विभिन्न समुदायाः स्वीय-विधानानुसारमेव सञ्चालिताः भवन्ति । गतमासस्य चतुर्दश- दिनाङ्के विध्यायोगेन नागरिक संहितायाः विषये स्व परामर्श प्रदातुं जनाः संप्रार्थिताः । सामान्य-जनाः प्रकरणेऽस्मिन् स्वपरामर्शान् जुलाई-मासस्य चतुर्दश- दिनाङ्कं यावत् प्रेषयितुं शक्नुवन्ति । उपराष्ट्रपतिना जगदीप सिंह- धनखड़ेन प्रोक्तं यत् यू.सी.सी. इति समान नागरिक संहितायाः कार्यान्वयनं भारतं तस्य राष्ट्रवादं च प्रभावी रुपेण एकी करिष्यति इति । उपराष्ट्रपतिः अद्य गुहाट्यां भारतीय-प्रौद्योगिकी संस्थानस्य पञ्चविंशतितमे दीक्षान्त समारोहे अवदत् यत् सर्वकारेण भारतं निवेशस्य अवसरस्य च वैश्विक-लक्ष्यं निर्मातुं बहवः सकारात्मक-पदक्षेपाः समुत्थापिताः सन्ति। उपराष्ट्रपतिना देशे भ्रष्ट्राचारम् अलोकतांत्रिक विकास-विरोधित्वेन च प्रख्यापितम्। आहत्य त्र्यधिकत्रिशत शोध विद्यार्थिभिः सहैव द्विसहस्राधिक एकादश छात्राः स्वीयोपाधयः प्राप्तवन्तः ।