राष्ट्रपतिः द्रौपदीमुर्मू: भूमि अभिलेख आधुनिकीकरणे उत्कृष्ट प्रदर्शनाय नव-संख्यकेभ्यः राज्य- सचिवेभ्यः अष्टषष्टिः जनपदाधीशेभ्यश्च भूमि-सम्मान पुरस्काराणि प्रदतवती । राष्ट्रपतिः अद्य नव-दिल्ल्यां एकस्मिन् समारोहे ऐषमः वर्षस्य भूमि सम्मान पुरस्काराणि प्रदत्तवती ।
एतानि पुरस्काराणि डिजिटल इंडिया-भूमि रिकॉर्ड आधुनिकीकरण कार्यक्रमस्य प्रमुखेषु घटकेषु उत्कृष्टयोगदान- कर्तृभ्यः राज्य-सचिवेभ्यः जनपदाधीशेभ्यश्च प्रदतानि । अस्मिन् अवसरे राष्ट्रपतिः उक्तवती यत् भू-अभिलेखानां डिजिटलीकरण इति आधुनिकीकरणस्य देशस्य विकासे महत्वपूर्ण योगदानं अस्ति । श्रीमती मुर्मूः उक्तवती यत् अनेन कार्येण पारदर्शिता सुनिश्चिता भविष्यति इति कथ्यते तथा जनाः सौकर्येण सर्वकारस्य कार्यक्रमैः लाभान्विताः भविष्यन्ति इति संभाव्यते। राष्ट्रपतिः उक्तवती यत् डिजिटल इंडिया इति अभियानं देशे जीवनस्य गुणवत्तां प्रवर्धनाय योगदानं करोति इति । सा उक्तवती यत् भारतस्य डिजिटल अर्थव्यवस्था विस्तृता जाता अथ अद्य विश्वस्य सम्पूर्णस्य डिजिटल मुद्रान्तरणस्य षड् चत्वारिंशत्-प्रतिशतं भारते
भवन्तः सन्ति। अस्मिन् अवसरे असम- बिहार छत्तीसगढ़-गुजरात- झारखंड- मध्यप्रदेश ओडिशा- त्रिपुरा – पश्चिम- बंगाल- चेत्येतेभ्यः राज्येभ्यः पुरस्काराणि प्रदत्तानि ।











