प्रधानमंत्री नरेंद्र मोदी उक्तवान् यत् भारतं संयुक्त अरब अमीरातश्च वैश्विक कल्याणं प्रवर्धनाय मिलित्वा एवमेव कार्य करिष्यन्ति । प्रधानमंत्री ट्वीट संदेश माध्यमेन एषा वार्ता समुदीरितवान् अथ स्व-यूएई – इत्यस्य यात्रायाः चलचित्रमेकमपि प्रसारितवान्। भारतस्य चंद्रयान-तृतीय- अभियानस्य सफलप्रक्षेपणे राष्ट्रपति शेख मोहम्मद बिन जायद अल नाहयानस्य टिप्पणिभ्यः प्रतिक्रियां संज्ञाप्य श्री मोदी अमूं धन्यवाद ज्ञापितवान् उक्तवान् च यत् चंद्रयानस्य सफलता सम्पूर्ण मानवतायै शुभ संकेतम् अस्ति । प्रधानमंत्री नरेंद्र मोदी, संयुक्त अरब अमीरातस्य राष्ट्रपति चेत्येतयोः मध्ये ह्यः संजातस्य उपवेशनस्य पुरस्सरं उद्घोषिते एकस्मिन् संयुक्त- संबोधने नेतृभ्याम् संयुक्त अरब अमीरात भारतयोः संबंधेषु प्रत्येकं पटलेषु अप्रतिमायां प्रगत संतोषं व्यक्तं कृतम्। द्वयोः देशयोः मध्ये गत वर्षे द्विपाक्षिक व्यापारं वर्धयित्वा पञ्चाशीति बिलियन अमेरिकी डॉलर मूल्यात्मकं संजातं येन कारणेन संयुक्त अरब अमीरात गतवर्षाय भारतस्य तृतीयं दीर्घतमं व्यापारिक सहयोगी अभवत् एवमेव भारतस्य द्वितीयं दीर्घतमं निर्यात- गंतव्यं संजातम्। ध्यातव्यम् अस्ति यत् भारतं यूएई इत्यस्य द्वितीयं दीर्घतमं व्यापारिक-
सहयोगी अस्ति। प्रधान मंत्री मोदी फ्रांसस्य राष्ट्रपति इमैनुएल मैक्रॉन इत्यमूं धन्यवादं ज्ञापितवान् उक्तवान् च यत् भारत-फ्रांसयोः मध्ये सम्बन्धः समयातीतः अस्ति, यो तयोः पारस्परिक-मूल्येषु प्रति-ध्वनितं भवति अथ द्वयीः देशयोः सामूहिक-स्वप्नान् प्रज्वलितं करोति च।
पीएम मोदी, फ्रान्सदेशस्य सर्वोच्चसम्मानं ‘ग्राण्ड् क्रॉस् आफ् द लेजियन् आफ् ऑनर्’ इति फ्रांसदेशस्य राष्ट्रपतिना इमैनुएल मैक्रोन् इत्यनेन गुरुवासरे जुलैमासस्य १३ दिनाङ्के प्रदत्तम्। पीएम मोदी विदेशेभ्यः अनेके राज्यसम्मानं प्राप्तवान् अस्ति।











