प्रधानमन्त्रिणा दिल्ली उपराज्यपालात् वी. के. सक्सेना विस्मात् दिल्लीजलप्लावस्य विस्तृतवृत्तान्तः अभिज्ञातः ।

प्रधानमन्त्री नरेन्द्रमोदी फ्रांस-संयुक्त अरब अमीरातयोः स्वीय सफलयात्रानन्तरं नवदिल्ली प्रत्यागतवान्। आगमनानन्तरं प्रधानमन्त्रिणा दिल्ली उपराज्यपालात् वी. के. सक्सेना विस्मात् दिल्लीजलप्लावस्य विस्तृतवृत्तान्तः अभिज्ञातः ।
श्रीसक्सेना ट्वीटसन्देशमाध्यमेन प्रोदीरितवान् यत् प्रधानमन्त्रिणा केन्द्रस्य सहयोगेन दिल्ली जनतायाः कल्याणार्थं सम्भव प्रयासान् कर्तुं निर्देशाः प्रदत्ताः।
दिल्ली-यमुना प्रवाहः
दिल्लीसर्वकारः यमुनायाः जलस्तरे अभूतपूर्ववृद्धेः कारणेन उत्पन्न स्थिति नियन्त्रयितुं यथासम्भव प्रयासं करोति । सर्वकारस्य सर्वे विभागाः राष्ट्रिय आपदुद्धार- बलेन अथ भारतीय सेनया मिलित्वा प्रवाहपीडित क्षेत्रेषु नागरिकाणां रक्षणे अथ पुनर्वास परिकल्पयितुं प्रयासं कुर्वन्तः सन्ति । हाः दिल्ल्यां वार्ताहरैः सह वार्ता कुर्वन् दिल्ली सर्वकारस्य मुख्यसचिवः उक्तवान् यत् दिल्ल्यां विगतवर्षस्य तुलनायां अस्मिन् वर्षे वृष्टौ अभूतपूर्व वृद्धेः कारणात् प्रवाहः समजायत । बहुभ्यः प्रवाहपीडितक्षेत्रेभ्यः पंचविंशति-सहस्राधिकजनानां सुरक्षा कृता। भोजनस्य, पेयजलस्य, स्वास्थ्यस्य च सौविद्ध्यं परिकल्पयितुं चतुश्चत्वारिंशत् रक्षा- शिबिराणि तत्र तत्र स्थापितानि सन्ति ।
ऋतु – विज्ञान विभाग:- वर्षा
भारतीय-ऋतुविज्ञान-विभागेन सूचितं यत् आगामिषु चतुर्षु दिनेषु उत्तराखण्डे, हिमाचलप्रदेशे, उत्तरप्रदेशे च प्रचण्डवृष्टेः सम्भावना वर्तते। विभागेन हिमाचल-प्रदेशस्य कृते जुलाई सप्तदशे अथ उत्तराखण्डस्य कृते जुलाई-अष्टादशे च ऑरेंज अलर्ट [ प्रख्यापितम् । पंजाब-हरियाणा दिल्ली उत्तरप्रदेश- राजस्थानेषु अग्रिम-चतुर्णां दिनानां कृते यल्लो अलर्ट [ प्रख्यापितम् । अग्रिमपंचदिनेषु मध्य-पूर्व-भारतस्य बहुषु स्थानेषु सक्रिय-मानसून मारुतस्य प्रभावेन प्रवर्षः भविष्यति [ति विभागेन सूचितम् । ऋतु- विज्ञान-विभागेन [द्वमपि सूचितं यत् पूर्वोत्तर-भारते शनैः-शनैः वर्षा न्यूनीभविष्यति अथ पश्चिमे वर्षायाः गतिविधिषु वृद्धिः भविष्यति ।