गृहमंत्री अमित-शाहः सहारा इति उद्योग समूहस्य चतुर्णां सहकारी समितिनां निक्षेप- कर्तृभिः आवेदनं प्रस्तुतकरणाय सीआरसीएस-सहारा अन्तर्जालीय प्रतिदान-पटलस्य शुभारम्भं कृतवान् ।

गृहमंत्री अमित-शाहः सहारा इति उद्योग समूहस्य चतुर्णां सहकारी समितिनां निक्षेप-कर्तृभिः आवेदनं प्रस्तुतकरणाय सीआरसीएस- सहारा अन्तर्जालीय प्रतिदान-पटलस्य शुभारम्भं कृतवान्। केन्द्रीय गृहमंत्री अमित शाहः अद्य नव-दिल्ल्यां अस्य अन्तर्जालीय प्रतिदान-पटलस्य शुभारंभ विहितवान्। पटलमिदं सहारा इति उद्योग समूहस्य दश-कोट्यधिक निक्षेपकर्तृभ्यः स्व-धनं पुनर्प्रापणार्थं सहायकं भविष्यति । अस्य पटलस्य शुभारंभं पुरस्सरं गृहमंत्री अमित शाहः उक्तवान् यत् सहारा-समूहस्य चतुर्षु सहकारी समितिषु निक्षेपकर्तृभ्यः अवरुद्धं धनं पुनर्प्रापणस्य प्रक्रिया सहारा प्रतिदान-पटलस्य उद्घाटनानन्तरं प्रारम्भिक चरणेषु प्रतिदान-पटलं निक्षेपकर्तृभ्यः पंच-कोटि- रुप्यकाणि वितरणं करिष्यति । प्रथमे चरणे प्रत्येकः निक्षेप-कर्ता दश- सहस्र-रुप्यकाणि प्राप्त कर्तुं शक्नोति । धन-प्रतिदानस्य सम्पूर्णा प्रक्रिया अन्तर्जालीय-माध्यमेन भविष्यति । गृहमंत्री समुदीरितवान् यत् चतुः कोटि निक्षेपकर्तारः साम्प्रतं दश-सहस्र-रुप्यकाणि स्वीकर्तुं शक्ष्यन्ते। श्री अमित शाहः उक्तवान् यत् अस्य उपक्रमस्य साफल्यं पुरस्सरं सहारा समूहस्य सहकारी समितिषु येषां निक्षेपकर्तृणां अधिकं धनं अवरुद्ध अस्ति तेषां धन-प्रतिदानस्य निर्णयं करिष्यति ।