दिल्ली लोकसभा विधेयकम्

लोकसभया राष्ट्रिय-राजधानी क्षेत्र दिल्ली-सर्वकार संशोधन विधेयकं विंशति त्रयोविंशति पारितम् । विधेयकेऽस्मिन् राष्ट्रिय-राजधानी क्षेत्र- दिल्ली-सर्वकार अधिनिय मेएकनवत्यधिक नवदशतमे संशोधनस्य प्रस्तावो विद्यते। विधेयकमिदं केन्द्रप्रशासनाय राष्ट्रिय राजधानी क्षेत्र-दिल्ली- सर्वकारस्य अधिकारिणां कर्मचारिणाञ्च कार्येभ्यः कार्यकालाय सेवा सम्बन्धि नियमेभ्यः च अधिकारं प्रदास्यति। एतस्मिन् विधेय के राष्ट्रिय राजधानी- लोकसेवा-प्राधिकरणस्य गठनस्यापि प्रावधानमस्ति। अस्मिन् प्राधिकरणे दिल्ल्याः मुख्यमन्त्री, दिल्ल्याः मुख्यसचिवः अपि च गृहसचिवः सम्मिलिताः भविष्यन्ति । प्राधिकरणमिदं अधिकारिणां स्थानान्तरण-नियुक्ति अनुशासनात्मक कार्याचरणानां सम्बन्धे देहल्या: उपराज्यपालाय अनुशंसा प्रदास्यति। विधेयके विवादस्य उत्तरं प्रददन् गृहमन्त्री अमितशाहः प्रसन्नताम् अभिव्यक्तवान् यतोहि विपक्षि सदस्यैः दीर्घ कालानन्तरम् अस्मिन् वादश्रवणे भागं स्वीकृतम्।