महिला सशक्तिकरणे जी-विंशति मन्त्रिस्तरीय शिखर सम्मेलनं गांधीनगरे सुसम्पन्नं जातम्। वार्ताहरं सम्बोधयन्ती केन्द्रीय महिला बाल विकासमन्त्री स्मृति ईरानी प्रोक्तवती यत् प्रथमवारं जी विंशति सम्मेलने भूमिस्तरे महिलानां प्रतिनिधित्वं जातम्। अस्मिन् सम्मेलने जी-विंशति-देशानां साधकशतं प्रतिनिधयः संघटनानि च भागम् स्वीकृतवन्तः ।











