द्रौपदी मुर्मू: मद्रास- विश्वविद्यालयस्य दीक्षान्तसमारोहे संबोधयति स्म

राष्ट्रपति पदासीना द्रौपदी मुर्मू: सबलं प्रतिपादितवती यत् बालिकानां शिक्षायां निवेश: राष्ट्रस्य प्रगतेः मार्ग प्रशस्तीकरोति । तया कथितं यत् बालिकाः अर्थव्यवस्थायां महत्त्वपूर्ण योगदानं कर्तुं शक्नुवन्ति, अपि च समग्ररूपेण सकारात्मकतया प्रभावयितुमपि शक्नुवन्ति। सुश्री मुर्मूः मद्रास- विश्वविद्यालयस्य पञ्चषष्ट्यधिकैकशततमे दीक्षान्तसमारोहे संबोधयति स्म। तया तिरुक्कुरलस्य ज्ञानदूरदर्शिता-इत्यनयोः विषयेऽपि बलं प्रदत्तम् अपि च, तया भारते सङ्गमसाहित्यस्य समृद्ध म्रायाः महत्त्वं अपि प्रकाशितम् ।