मूर्खभृत्यस्य (लघु कथा)

अरे शंखनाद, गच्छापणम्, शर्कराम् आनय।” इति स्वभृत्यम् शंखनादम् गोवर्धनदासः आदिशति । ततः शंखनादः आपणम् गच्छति, शर्कराम् जीर्णे वस्त्रे न्यस्यति च । तस्मात् जीर्णवस्त्रात् मार्गे एव सर्वापि शर्करा स्त्रवति । ततः गोवर्धनदासः कोपेन शंखनादम् वदति, “अरे मूढ, कुत्रास्ति शर्करा ? शर्करादिकम् एवम् जीर्णेन वस्त्रेण न एवानयन्ति कदापि । इतःपरम् किमपि वस्तुजातम् दृढायाम् सन्चिकायाम् निक्षिप्य आनय च ” इति ।
अत्रान्तरे गोवर्धनदासस्य पुत्रः “श्वानशावकम् आनय” इति शंखनादम् आदिशति । आज्ञापालकः शंखनादः श्वानशावकम् सन्चिकायाम् क्षिपति, सन्चिकाम् वस्त्रेण आच्छादयति च । तेन शावकस्य श्वासः रुध्दः भवति । सः च श्वानशावकः पञ्चत्वम् गच्छति । तदा गोवर्धनदासः शंखनादम् अभिधावति क्रोधेनाक्रोशति च. श्वानादिकम् दोरकेण बद्ध्वा आनयन्ति इति अपि नावगच्छसि किम् ? इति । ” धिक् मुढ, ततः कदाचित् गोवर्धनदासस्य भार्या दुग्धम् आनय इति तस्मै कथयति । सः आपणम् गच्छति पात्रे दुग्धम् आदाय दोरकेण बद्ध्वा कर्षति । मार्गे पात्रम् लुठति । पात्रात् दुग्धम् सर्वत्र प्रवति । तेन हताशः गोवर्धनदासः तम् वदति “भो महापंडित, अपसरः कृष्णम् भवतु ते मुखम् ” इति ।
तदा आज्ञापालकः शंखनादः बहिः गच्छति कज्जलेन मुखम् लिम्पति । तेन तस्य मुखम् कृष्णम् भवति । ततः कृष्णमुखः सः प्रत्यागच्छति । गोवर्धनदासः विरुपम् तम् पश्यति आत्मानम् एव निन्दति ललाटम् हस्तेन ताडयति वदति च । वरम् भृत्यविहिनस्य जिवितम् श्रमपूरितम् । मूर्खभृत्यस्य संसर्गात् सर्वम् कार्यम् विनश्यति ॥