पाणिनिसंस्कृतविश्वविद्यालये संस्कृतसप्ताहसमारोहस्य आयोजनम्

वार्तासंयोजक:-डॉ. दिनेश: चौबे

उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेन्द्रस्य तत्त्वावधाने संस्कृतसप्ताहसमारोहस्य आयोजनम् अगस्तमासस्य 28-दिनाङ्कतःसितम्बरमासस्य 3-दिनाङ्कं यावत् प्रचलिष्यति। समारोहस्य उद्घाटनं 28 तमे दिनाङ्के भविता। कार्यक्रमस्य आदौ वैदिकमङ्गलाचरणं तदनु संस्कृतशोभायात्रा , तिलकं, संस्कृतसामग्र्याः वितरणं , छात्राणां कृते विभिन्नानां प्रतियोगितानामायोजमपि कृतमस्ति। तत्र श्लोकोच्चारणप्रतियोगिता, संस्कृतभाषणस्पर्धा, संस्कृतनिबंधलेखनं ,श्लोकान्त्याक्षरीप्रतियोगिता, सूत्रान्त्याक्षरीप्रतियोगिता, रङ्गवल्ली चेत्यादया: सन्ति । एवञ्च प्रतिदिनं सायं चतुर्वादनत: आभासीयपटलमाध्यमेन असप्ताहं यावत् नानाविषयेषु संस्कृत विदुषां विशिष्टव्याख्यानानपि भविष्यन्ति । तत्र वक्तारा: सन्ति। आचार्य:जी. एस.आर.कृष्णमूर्तिः, कुलपतिः राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः,डॉ.अनुराधाशङ्करवर्या अतिरिक्तपुलिसमहानिदेशिका, पुलिसमुख्यालय:, भोपालम्, आचार्यः रमेशचन्द्रभारद्वाजः कुलपतिः, महर्षिवाल्मीकिसंस्कृतविश्वविद्यालयः, कैथलम्, हरियाणा) आचार्यः हरेरामत्रिपाठी, कुलपतिः, कविकुलगुरूकालिदाससंस्कृत विश्वविद्यालय’, रामटेकम् , आचार्यः ब्रजभूषणओझा, आचार्य:, संस्कृतविद्याधर्मविज्ञान सङ्कायः, काशीहिन्दुविश्व विद्यालय:, वाराणसी आचार्यः शिवशङ्कर मिश्रः, विभागाध्यक्ष:, हिन्दु-अध्यययनविभागः, श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालय:, नवदेहली, आचार्य:मनोजकुमारमिश्र; अध्यक्षः,वेदविभाग:, केंद्रीयसंस्कृतविश्वविद्यालय: प्रयागराज: च सन्ति। सम्पूर्णसंस्कृतसप्ताहसमारोह कार्यक्रमस्य संरक्षकः व्याख्यानसत्राणां सत्राध्यक्षश्च विश्वविद्यालयस्य माननीयकुलपतिः आचार्यविजयकुमार: सीजीवर्यः , मार्गदर्शक: कुलसचिवः डॉ.दिलीपसोनीमहोदयः, कार्यक्रमसंयोजकः वेदव्याकरणविभागाध्यक्ष:, डॉ.अखिलेशकुमारद्विवेदीमहोदय; सहसंयोजकश्च डॉ.दिनेशचौबे महोदय: च् वर्त्तन्ते।