‘आनन्दपुरे धनदासः धूर्तमतिश्चेति द्वौ प्रतिवेशिनौ न्यवसताम् । तयोः धनदासः अतिलोभाविष्ट, धूर्तमतिश्च वञ्चनानिपुणः ।
अथ कदाचित् धूर्तमतिना चिन्तितम्, “लुब्धः एषः धनदासः अतीव मूर्खः । अतः केनाप्युपायेन वञ्चयेयम्” । एवं विचिन्त्य एकदा धनदासगृहमागत्य तेनोक्तम्, “भोः धनदास, श्वः मम गृहं बहवः आप्ताः आगमिष्यन्ति । तेषां कृते पर्याप्तानि भाण्डानि मम गृहे न सन्ति । अतः भवता कानिचन भाण्डानि दीयन्ताम् । अवसिते प्रयोजने प्रत्यर्पयेयं तानि” इति । तथेति उक्त्वा धनदासेन तस्मै कानिचन भाण्डान्यदीयन्त ।
अपरेद्युः धूर्तमतिः भाण्डानि प्रत्यर्पयितुं धनदासगृहमागतः । तेन यथापूर्वं गृहितानि सर्वानि भाण्डानि आनितानि तथा अन्यानि नूतनानि लघूनि भाण्डान्यपि । नुतनभाण्डानि दृष्ट्वा चकितेन धनदासेन भाषितम्, “भद्र, न एतानि भाण्डानि मम वर्तन्ते ।” तत् श्रृत्वा उच्चैर्विहस्य धूर्तमतिना भणितम्, “अये, त्वया दत्तानि भाण्डानि मम गृहे रात्रौ प्रासुवत । तवैव भाण्डानामपत्यानि नूतनानि भाण्डानि एतानि । निःसंदेहं स्वीकृयन्तामेतानि भवता” इति । लोभाविष्टः धनदासः तानि स्वीकृत्य प्रमुदितः संजातः ।
अथ गच्छता कालेन धूर्तमतिः पुनः धनदासं भाण्डानि प्रार्थयत । पुनरेकवारं बहूनि भाण्डानि लभेयाहमित्याशया धनदासेन तस्मै बहूनि भाण्डानि अदीयन्त ।
तदनन्तरम् अतीतः मासः एकः । तथापि धूर्तमतिः भाण्डानि न प्रत्यार्पयत्। चिन्ताकुलेन धनदासेन धूर्तमतिमागत्य भाण्डानि अयाच्यन्त । “तव तानि सर्वाणि भाण्डानि मृतानि ।” इति धूर्तमतेः प्रत्युत्तरं श्रुत्वा कृध्देन धनदासेन गदीतम्, ” रे वञ्चक, अपि विश्वसनीयं तव एतद् वचः ? अचेतानि भाण्डानि म्रियन्ते किम् ? अलीकं तव वचनम्” इति । तदा शान्तस्वरेण धूर्तमतिरभाषत, “भद्र, अलं कोपेन । यथा पूर्व भाण्डानि जातानि तथा इदानिं मृतानि । यतः जातस्य हि ध्रुवो मृत्युः” इति । तत् श्रुत्वा अधोमुखः धनदासः गृहमव्रजत् ।











