संस्कृत भाषा भारतस्य आत्मा – प्रो. अखिलेशशर्मा (संस्कृतविभागः एम.जे.-स्वायत्तमहाविद्यालयः)

वार्तासंयोजक: प्रो अर्जुन शास्त्री मेटे,जलगांवः (महाराष्ट्र-राज्यम्)

जलगांवः (महाराष्ट्र-राज्यम्) भारते प्रतिवर्षं श्रावणीपूर्णिमायाः शुभकालः संस्कृतदिवसरूपेण आचर्यते। अस्मिन् अवसरे न केवलं भारते अपितु सम्पूर्णे विश्वे संस्कृतदिवसः महता उत्साहेन आचर्यते। संस्कृत-सप्ताहसमारोहः अवसरे जलगांवस्य स्वामी विवेकानंदः कनिष्ठःमहाविद्यालये आयोजिते कार्यक्रमे मुख्यातिथिः प्रो. अखिलेशशर्मा (संस्कृतविभागः एम.जे.-स्वायत्तमहाविद्यालयः) संस्कृतदिवसम् आयोजयितुं प्रयोजनं विस्तरेण वदन् संस्कृतं भारतस्य आत्मा अस्ति, संस्कृतभाषा स्वस्य योग्यं स्थानं प्राप्नुयात्। संस्कृतभाषा जनसामान्यस्य कृते उपलभ्यते इति अपि सः प्रतिपादितवान् । सः अग्रे अवदत् यत् संस्कृतं विश्वकल्याणं, शान्तिः, सहकार्यं, वसुधैव कुटुम्बकम् इति अवधारणां प्रवर्तयति इति भाषा अस्ति। अतः संस्कृतं संस्कृतिश्च एकस्यैव मुद्रायाः द्वौ पक्षौ स्तः, तान् पृथक् कर्तुं कोऽपि न शक्नोति। अस्मिन् अवसरे निबन्धप्रतियोगिता, सुभाषितापाठप्रतियोगिता, संस्कृतगीतगायनप्रतियोगिता,स्तोत्रपाठप्रतियोगिता तथा प्रश्नोत्तरप्रतियोगिता इत्यादयः आयोजिताः। अस्मिन् कुलम् १०७ प्रतियोगिनः भागं गृहीतवन्तः । पुरस्कारविजेतानां छात्राणां गणमान्यैः पदकैः, पुस्तकैः, प्रमाणपत्रैः च सम्मानितम्।
प्रतियोगितियाः निर्णायकाः प्रो. दीपक चौधरी, प्रो गणेश सूर्यवंशी, प्रो ज्योति मोरे, प्रो ईशा वडोडकर। कार्यक्रमस्य अध्यक्षता उपप्रधानाध्यापिका प्रो.श्रीमती करुणा सपकाले महोदयया कृता।अस्मिन् अवसरे त्रयाणां शाखानां समन्वयकाः प्रो.स्वाती बर्हाटे , प्रो.उमेश पाटील, प्रो.प्रसाद देसाई, तथैव कलामण्डलस्य अध्यक्षः प्रो .योगेश धनगर, संस्कृत विभागाध्यक्ष, प्रो अर्जुन शास्त्री मेटे , प्रसिध्दी समिति प्रमुख डॉ. अतुल इङ्गले उपस्थिताः आसन् । कार्यक्रमस्य परिचयः प्रो. अर्जुन शास्त्री , सूत्रसंचालिका प्रो.संध्या महाजन, मुख्यातिथीनां परिचयः प्रो.मयुरी हरिमकर महोदयया कृतम् एवं धन्यवाद- ज्ञापन प्रो. विजय भोई द्वारा कृतम्। अस्मिन् अवसरे कलामण्डलस्य सदस्याः, शिक्षकाः, छात्राः च बहुसंख्याकाः उपस्थिताः आसन्।