केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली, आन्ध्रप्रदेश केन्द्रीय विश्वविद्यालयः अनन्तपुरम् इत्यनयोः संयुक्ततत्त्वावधानेन सञ्चालिते अनौपचारिकसंस्कृतशिक्षणकेन्द्रे दशदिवसीयात्मिकायाः संस्कृतवाग्व्यवहारकार्यशालायाः समुद्घाटनं सञ्जातम्।

आन्ध्रप्रदेशः, अनन्तपुरम् – 21अगस्त 2023
त्रयोविंशत्युत्तरद्विसहस्रतमाब्दस्य अगस्त मासस्य एकविंशतिदिनाङ्के सोमवासरे केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली, आन्ध्रप्रदेशकेन्द्रीयविश्वविद्यालयः अनन्तपुरम् इत्यनयोः संयुक्ततत्त्वावधानेन सञ्चालिते अनौपचारिकसंस्कृतशिक्षणकेन्द्रे दशदिवसीयात्मिकायाः संस्कृतवाग्व्यवहारकार्यशालायाः शुभारम्भोSभवत्।

संस्कृतभाषायां भारतस्य सकलमपि ज्ञानं विज्ञानं निहितं वर्तते। अस्माकं ऋषिमहर्षिभिः प्रणीते संस्कृतवाङ्मये आध्यात्मिकं चिन्तनं, जीवनदर्शनं, मानवजीवनमूल्यानि च विद्यन्ते।अतः स्वीयव्यक्तित्वविकासाय सर्वेणापि जनेन संस्कृतमध्येतव्यम्। – आचार्यः विशालप्रसादभट्टः


तत्र सर्वादौ वैदिकमङ्गलाचरणपुरस्सरं शारदार्चनेन वरिष्ठप्राध्यापकः प्रो० राजेन्द्रप्रसादः,परीक्षानियन्त्रकः प्रो० हनुमान् कैनेडी, सहाचार्यः डॉ० बाबूगोपालः,सहायकाचार्या श्रीमती हेमा, डॉ० सुनीता कुमारी च दीपप्रज्ज्वलनं विधाय कार्यशालायाः समारम्भं कृतवन्तः।
विश्वविद्यालयस्यास्य मान्यः कुलपतिः प्रो० एस. ए. कोरी महोदयः अपि च संकायाध्यक्षः प्रो० जी. रामरेड्डी महोदयौ च विश्वविद्यालयीयकर्मणि अन्यत्र कार्यव्यग्रताकारणेन कार्यक्रमस्य सफलतायै स्वीयशुभकामनाः प्रेषितवन्तौ।

“संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा वर्तते। साम्प्रतं समग्रस्यापि विश्वस्य जनाः संस्कृतस्य वैज्ञानिकं महत्त्वं विज्ञाय संस्कृताध्ययनं कुर्वन्तः सन्ति।भारतीयज्ञानपरम्परायाः सम्यक् बोधाय प्रत्येकं भारतीयेन निश्चप्रचं संस्कृतम् अध्येतव्यम्। ” -प्रो० राजेन्द्रप्रसादः, पूर्वकुलपतिः, श्रीवेङ्कटेश्वरविश्वविद्यालयः, तिरुपतिः।


कार्यशालायाः प्रशिक्षकेण आचार्यविशालप्रसादभट्टेन सर्वेषां स्वागतं कुर्वन् कार्यशालायाः महत्त्वं प्रतिपादितम्।
स्वीये प्रास्ताविकोद्बोधने उत्तराखण्डात् समागतः केन्द्रशिक्षकः आचार्यः विशालप्रसादभट्टः नवदेहलीस्थस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य संस्कृतस्य च वैशिष्ट्यं प्रतिपादितवान्। तेनोक्तं यत् संस्कृतभाषायां भारतस्य सकलमपि ज्ञानं विज्ञानं ऋषिमहर्षीणाम् आध्यात्मिकं चिन्तनं मानवजीवनमूल्यानि च विद्यन्ते। अतः भारतीयविद्यानां ज्ञानाय आदौ संस्कृतभाषायाः ज्ञानं परमावश्यकम्। तदर्थं संस्कृतभाषा-प्रमाणपत्रीय-पाठ्यक्रमे प्रवेशाय अपि च छात्राणां मनस्सु संस्कृतम्प्रति रुच्योत्पादनाय विश्वविद्यालयपरिसरे संस्कृतमयवातावरणनिर्माणाय च सर्वप्रथमं कार्यशालेयं समायोज्यते। कार्यशालायामस्यां नित्यदैनन्दिनजीवने व्यवहारोपयोगिनां शब्दानां वाक्यानां सरलमाध्यमेन प्रत्यक्षविधिना च संस्कृतभाषाशिक्षणं करिष्यते। संस्कृतगीत-कथा-क्रीडासंवादमाध्यमेन वस्तु-स्फोरकपत्राणाञ्च प्रदर्शनेन दशसु दिवसेषु अत्र सरलसंस्कृतेन व्यवहारः शिक्षयिष्यते।
येन सर्वोपि जनः स्वीयनित्यजीवने सरलसंस्कृतेन व्यवहारं कर्तुं समर्थः भविष्यति।
अवसरेSस्मिन् श्रीवेङ्कटेश्वरविश्वविद्यालयस्य कुलपतिचरः आंग्लभाषायाः वरिष्ठप्राध्यापकः प्रो० राजेन्द्रप्रसादः प्रोक्तवान् यत् संस्कृतभाषा विश्वस्य सर्वप्राचीनतमा भाषा वर्तते। साम्प्रतं समग्रस्यापि विश्वस्य जनाः संस्कृतस्य वैज्ञानिकं महत्त्वं विज्ञाय संस्कृताध्ययनं कुर्वन्तः सन्ति। भारतीयज्ञानपरम्परायाः सम्यक् बोधाय प्रत्येकं भारतीयेन निश्चप्रचं संस्कृतम् अध्येतव्यम्।
समुद्घाटनसत्रानन्तरं साक्षात् कार्यशालायाः प्रशिक्षकः आचार्यविशालप्रसादभट्टः प्रथमदिवसस्य पाठ्यक्रमस्य पाठनम् अत्यन्तं मनोवैज्ञानिकपद्धत्या साभिनयं भाषाशिक्षणस्य विविधानि कौशलानि प्रयुज्य अकरोत्। तत्रादौ ध्येयमन्त्रः गीतञ्च गापितम्। तदनु संस्कृतेन परस्परं परिचयकरणं बोधितम्। पुनश्च दूरस्थ-समीपस्थ-व्यक्तिवस्त्वादीनां परिचयः पाठितः। पश्चाच्च सरलसंस्कृतेन कथापि श्राविता। अन्ते शान्तिमन्त्रेण सत्रस्य सम्पूर्तिः समभवत्। कार्याशालायामस्यां आन्ध्रप्रदेशकेन्द्रीयविश्वविद्यालयस्य प्राध्यापकाः शिक्षकाः शिक्षिकाः छात्राश्च पञ्जीकरणं कृत्वा सोत्साहं भागं च गृहीतवन्तः।