इसरो इत्यमुना स्वकीयस्य सौराभियानस्य आदित्य एल. वन इत्येतस्य प्रथमकक्षायाः घूर्णनप्रक्रिया सफल्येन सम्पूरिता ।

अस्य यानस्य इसरोइत्यमुना स्वकीयस्य सौराभियानस्य आदित्य एल. वन इत्येतस्य प्रथमायां कक्षायाः घूर्णनप्रक्रिया साफल्येन सम्पन्ना कृता । भारतीय अन्तरिक्ष अनुसन्धान- संघटनेन देशस्य प्रथमं सौराभियानं आदित्यएलवन इति पृथिव्याः कक्षायां सफलतापूर्वर्केण स्थापितम् इसरो-इति एकस्मिन् ट्वीटसन्देशे लिखितवान् यत् सम्प्रति पृथिवीत: न्यूनतम अन्तरं पञ्चत्वारिंदधिक- द्विशतं किलोमिटरमितं अधिकतम – अन्तरं नवपञ्चाशदधिक-चतुश्शतोतर विंशतिसहस्रं किलोमिटरमितं यावत् अस्ति। संघटनेन संसूचितं यत् उपग्रहोऽयं उचितायां स्थितौ सम्यक् रूपेण च कार्य समाचरति आदित्य- एल-1 इत्येतस्य लम्बमानं अस्य मासस्य पञ्चमे दिनांके मध्याहने त्रिवादने पुनरेकवारं वर्धयिष्यति । पृथिया: कक्षायाः अस्य लम्बमानं पुनः चतुर्थवारं वर्धिष्यते । एतदनन्तरं पञ्चविंशत्यधिकैकशतं दिनेषु उपग्रहस्यास्य पञ्चदशलक्ष किलोमीटरनितं दूरत्वं एल- वन बिन्दुं यावत् प्राप्तस्य सम्भावनास्ति। अने उपग्रहेण सूर्यस्य बाह्यस्तरस्य कोरोनाइत्यस्य सम्बन्धे सूचना मेलिष्यति । हयः अस्य उपग्रहस्य प्रक्षेपणं साफल्यत्वेन जातम्।
चन्द्रयान तृतीयम् शयनावरस्था
चन्द्रमसि चतुर्दशदिनांके यावत् सूर्यप्रकाशस्य अभावेन भारतीय-अन्तरिक्ष- अनुसन्धान-संघटनेन सौरोर्जया प्रचल्यमानस्य प्रज्ञानरोवरस्य पेलोड्स इति शयनावस्थायां कृतः । अपिच, चन्द्रमसः भूतले सुरक्षितमस्ति । इसरोइत्यमुना ट्वीट्सन्देशे विज्ञापितं यत् एपीएक्सएस, लिब्स पेलोड्स उभौ पिद्धौ जातौ रोवर इत्यस्मिन् ऊर्जाकोष: पूर्णतया सम्पूरितो वर्तते । चन्द्रमसि द्विविंशतिदिनांके अस्य मासस्य अग्रिमेन सूर्योदयेन प्रकाशं स्वीकरिष्यति ।