चित्रकारस्य कौशलम् (लघु कथा)

कश्चित् खलो नृपो वामेन नेत्रेण काण आसित् । तस्य सभायामर्जुनो नाम कश्चन कुशलः चित्रकारोऽवर्तत । अथैकदा नरपतिस्तं परीक्षितुमवदत् भद्र, त्वं मम एतादृशं चित्रमालिख यत् सर्वेषामेव संतोषकारकं भवेत् । अन्यथा त्वामहं दण्डयेय । अर्जुनः अवदत्, ‘राजेन्द्र, यत् सर्वेषामेव संतोषं जनयेत् तादृशं चित्रमालिखितुं प्रयतेय इति । किन्तु काणस्य भूपतेः कठिनं समयं चिन्तयित्वा सः अतिव विषण्णोऽभवत् ।
अर्जुनो व्यचिन्तयत् “यदि नृपस्य वास्तवं चित्रमालिखेयं, तर्हि चित्रे स्वनयनं काणं दृष्ट्वा अयं मह्यं क्रुध्येत्, मां च दण्डयेत । यदि चित्रेऽस्य काणं नयनं न लिखेयं तर्हि तत् चित्रम् अयथार्थं भवेत् । अतो जना मां निन्देयुः । तत् किम् अधुना अनुष्ठेयम् ? ‘इतो व्याघ्र इतस्तटी’ इति मेऽवस्था जाता” ।
एवं चिन्ताकुलो नृपात् भीतश्च स आत्मानं विनोदयितुम् अरण्यमेकं प्राप्तः । तत्र वामनेत्रं निमील्य शरासनं चाकृष्य खगमेकं हन्तुं सज्जं व्याधम् अपश्यत् । तथा स्थितं तं व्याधं दृष्ट्वा स मुदितश्चित्रकार: अचिन्तयत्, “यदि अहं चित्रे मृगयायां रतं नृपं लिखेयं, तर्हि स मह्यं न क्रुध्येत् जनाः च मां प्रशंसेयुः । “
नगरम् आगत्य तादृशं चित्रं तेन लिखितम् । ततस्तत् नृपाय समर्प्य विनयेन अवदत् ” एतेन चित्रेण अनुग्रहितुम् अर्हति महारजः । ” भूपतिः तत् चित्रं दृष्ट्वा अतीव सन्तुष्टः जातः । स चित्रकाराय विपुलं धनं प्रायच्छत् । विस्मिताश्च सर्वे जनाः अवदन् “अहो कौशलमेतस्य चित्रकारस्य पश्यत’ इति ।