कनाडादेशस्य नागरिकानां कृते ई-वीजासहिताः वीजासेवाः अस्थायिरूपेण स्थगिताः

भारतेन कनाडादेशस्य एकं वरिष्ठं राजनयिकं निष्कासितम्, कारणमिदमस्ति यत्भारतस्य आन्तरिक कार्येषु कनाडादेशस्य राजनयिकस्य हस्तक्षेपः आसीत्। विदेशमन्त्रालयेन एकस्मिन् विज्ञापने उक्तं यत् आगामिपञ्चदिनान्तरे सम्बन्धितराजनयिकं भारतात् निर्गन्तुं कथितम् अस्ति। मन्त्रालयेन भारते कनाडादेशस्य उच्चायुक्तं ‘कैमरन् मैके’ इत्यमुम् नवदिल्लीनगरस्य दक्षिणखण्डे आहूतम्।
भारतविरोधी कार्येषु कनाडादेशस्य संलग्नतायाः विषये भारतस्य वर्धमानचिन्तामपि प्रतिबिम्बयति। गतदिवसे भारतेन कनाडादेशस्य प्रधानमन्त्रिन: “जस्टिन ट्रुडो”, विदेशमन्तृण: च कनाडादेशे जातायां हिंसायां भारतसर्वकारस्य संलग्नतायाः विषये वक्तव्यं निरस्तीकृतम्। विदेशमन्त्रालयेन उक्तं यत् कनाडादेशे कस्यापि हिंसायाः कार्ये भारतसर्वकारस्य संलग्नतायाः आरोपाः व्यर्थाः प्रेरिताः च सन्ति । भारतेन सुरक्षाकारणैः कनाडादेशस्य नागरिकानां कृते ई-वीजासहिताः वीजासेवाः अस्थायिरूपेण स्थगिताः । विदेशमन्त्रालयस्य प्रवक्ता अरिन्दम बागचीः उक्तवान् यत् एषः निर्णय: हिंसात्मक आह्वानान्यभिलक्ष्य स्वीकृतः अस्ति यतो हि एतैः कारणैः कनाडादेशे भारतीय-उच्चायोगस्य वाणिज्यदूतावासस्य च कार्याचरणं बाधितं जायते। सः अवदत् यत् कस्मिन् अपि देशे निवसन्तः कनाडादेशस्य नागरिकाः भारतीयवीजावाप्तये आवेदनं कर्तुं न शक्ष्यन्ति। परन्तु वैधवीजाधारयन्तः जनाः भारतम् आगन्तुं शक्नुवन्ति। हरदीपनिज्जारविवादस्य विषये श्रीबागचीः अवदत् यत् कनाडादेशेन अद्यापि अस्मिन् विषये किमपि विशिष्टा सूचना न दत्ता । तत्रैव भारतेन कनाडादेशस्य भूमौ आपराधिकगतिविधीनां विषये दृढसाक्ष्यानि दत्तानि परन्तु तस्मिन् विषये कनाडासर्वकारेण किमपि क्रियान्वयनं न कृतम्।