‘आयुष्मान् भव’

स्वास्थ्यसचिवः सुधांशपन्तः उक्तवान् यत् ‘आयुष्मान् भव’ इति अभियानान्तर्गत चतुर्भिः दिवसैः एव पञ्चलक्षतोपि अधिकानि आयुष्मान्प्रप्रत्राणि निर्मितानि सन्ति । तेनोक्तं तथैव २० लक्षाधिकाः आयुष्मानभारतस्वास्थ्यलेखाः ABHA IDs इति उत्सृष्टाः । श्री पन्तः अवदत् यत्, केवलं चतुर्दिनेषु स्वास्थ्य-कल्याण केन्द्रेषु तथा च सामुदायिक स्वास्थ्यकेन्द्रेषु निःशुल्क चिकित्सा- परीक्षण सेवाना लाभ प्राप्तुं २० लक्षाधिकाः जनाः पञ्जीकृताः ।