अथ विश्वकर्मा जयन्त्यवसरे नवदिल्ल्यां भारत- अन्ताराष्ट्रिय सम्मेलनकेन्द्र ‘यशोभूमि’ इत्यस्य उद्घाटनं विहितवान् च।
प्रधानमन्त्री नरेन्द्रमोदी विश्वकर्मा जयन्त्यवसरे ह्यः नवदिल्ल्या ‘यशोभूमि – इत्याख्ये अन्ताराष्ट्रिय सम्मेलनप्रदर्शनी केन्द्रे प्रधानमन्त्री विश्वकर्मा-नाम्नीं नवीनां परियोजना आरब्धवान्। ततः पूर्व तेन दिल्ल्या द्वारकायां यशोभूमि’ – इत्याख्यस्य भारतीयान्ताराष्ट्रिय सम्मेलन प्रदर्शनी केन्द्रस्य लोकार्पणं कृतम्। श्रीमोदी द्वारकायाम् एकविंशतिप्रखण्डतः पंचविंशति-प्रखण्ड- पर्यन्तं एयरपोर्ट-मेट्रो-एक्सप्रेस्-लाइन्-इत्यस्य मेट्रोपथस्य विस्तारस्यापि उद्घाटनं कृतवान्। ध्यानास्पदमस्ति यत् ‘यशोभूमि’ इत्यत्र विश्व-स्तरीयोपवेशनानि सम्मेलनानि प्रदर्शन्यः च आतिथ्याय आयोजयिष्यन्ते। केन्द्रमिदं विश्वस्य बृहत्तमरेषु सम्मेलनकेन्द्रेषु प्रदर्शनी-सौविध्य-स्थलेषु च अन्यतमं अस्तिा अस्मिन् अवसरे श्रीमोदी उक्तवान् यत् इयं योजना तेभ्यः लक्षाधिकेभ्यः कर्मकरेभ्यः शिल्पकारेभ्यश्च आशा किरणमस्ति । प्रधानमन्त्रिणा यशोभूमि इति स्थलं श्रमिकेभ्यः प्रत्येकस्मै विश्वकर्मिणे च समर्पितम्। श्रीमोदी अवदत् यत् प्रशासनेन प्रधानमन्त्री विश्वकर्मा योजनायै त्रयोदश सहस्र-कोटि-रूप्यकाणि व्ययीकरिष्यन्ते । एतस्मिन् केन्द्रे मुख्यसभागारः एकादशसहस्रसन् क्षमता-युताः त्रयोदश संगोष्ठीकक्षाः च सन्ति। मुख्यसभागारे प्रायशः षट्-सहस्राधिकाः अतिथयः उपवेष्टुं शक्ष्यन्ति।











