शीतं बहु बाधति (लघु कथा)

सर्वे जानन्ति यत् भोजराज्ञः दरबारे अविद्यत कविः कालीदासः । कदाचित् एकः परदेशीयः पण्डितः भोजराजै सन्देशं प्रक्षिप्तवान् । सन्देशे लिखितं, आगमिष्यामि अमुकदिवसे भवतः दरबारस्य पण्डितैः सह चर्चा विवादं च कर्तुं इति । तथा भोजराजा दरबारे अकथयत् एषः पण्डितः आगमिष्यति इति ।
यस्मिन् दिवसे पण्डितः आगच्छति, तस्मिन् कालीदासः पालखीधारकस्य रूपं परिदधानः तस्य स्वागताय उपस्थितः भवति । न खलु जानाति पण्डितः यत् कालीदासः एव सः । पालखीं स्कन्दयोः वहन् निर्गतः कालीदासः पण्डितेन सह । तस्मिन् काले शिशिरः भवति ऋतुः शीतः च पवनः देहं ताडयति इव । वदति शीतं बहु बाधति इति । चतुरः कालीदासः त्वरया एव पुत्रवदति, पण्डितः, “न तथा बाधते शीतं यथा बाधति बाधते” ।
आत्मनेपदी खलु बाध् धतुः इति न विज्ञातं पण्डितेन । मन्यते सः, यदि एतस्मिन् राज्ये पालखीधारकाः अपि एतावत् जानन्ति संस्कृतं पण्डितैः सह मेलः मम पराभवाय एव । तथा कालीदासं आज्ञापयति न खलु इच्छामि एतस्मिन् राज्ये गन्तुं । गृहे गमिष्यामः, इति ।