पश्चिमवङ्गराज्ये आश्वयुजमासः (सप्टम्बर्-अक्टोबरमासयोः वर्तमानः) वर्षस्य् प्रमुखभागायते । यतः अस्मिन्नेव मासे महोत्साह दायकं नवरात्रोत्सवम् आचरन्ति तत्रत्याः । दुर्गापूजायाः आचरणस्य परम्परा बह्वीभ्यः शताद्वीभ्यः पूर्वम् एव आरब्धा । द्वादशशताब्द्ययाः पूर्वात् एव आरभ्य आचर्यते स्म दुर्गापूजा इति ज्ञायते भारतीयस्य साहित्यस्य अध्ययनेन । एतस्मात् स्पष्टं यत् आ बहोः कालात् अविच्छिन्नतया उत्सवोऽयम् आचर्यमाणः अस्ति तत्र इति । पूर्वं भूस्वामिनः वाणिज्यकाराः च स्वगृहेषु पूजाम् आयोजयन्ति स्म । तत्सम्बद्धं व्ययं स्वयं वहन्ति स्म च । जातिभेदं, धनिकारिद्रभेदं च विना सर्वेऽपि प्रतिवेशिनः पूजास्थाने उपस्थिताः भवन्ति स्म । सर्वेषां स्वागतं, पूर्णोदरं भोजनं च भवति स्म । किन्तु अद्यत्वे सा पूजा जातितरिधाउ एव आचर्यते जनैः स्वयम् एव ।
एतदर्थं घटितेषु सङ्घेषु, समितिषु, समूहेषु च पूजामाध्यमेन क्र्मशः शीलविकासः जायते स्म पूर्वम् । सामाजिकधार्मिकप्रतिकभूतः एष उत्सवः अत्युन्नतां प्रगतिं प्राप्नोति स्म अपि । किन्तु इदानीम् एतत् परिस्थितिवशात्, वैभवाडम्बरादि प्रदर्शनकारणं जातम् अस्ति । पूर्वं दुर्गा एका एव पूज्यते स्म । किन्तु इदानीं सा परिवारसहिता द्दस्यते । पत्युः शिवस्य, पुत्रयोः गणेशकर्त्तिकेययोः समक्षे दुर्गायाः मूर्तिः प्रमुखतया यथा भासेत् तथा कृत्वा दिव्यसन्निधिं चित्रयन्ति । पूजा दिनत्रयं यावत् भवति ।
दुर्गायाः सरस्वत्याः, लक्ष्म्याः, गणेशस्य, कार्तिकेयस्य च मूर्तीः द्योतमानेन दीपालङ्कारेण सज्जीकृत्य, विशाले पटमण्डपे प्रतिष्ठापयन्ति । एतत् द्दश्यं सहजतया समग्रे राज्ये जनानां चित्तम् आकर्षति । अन्तिमे दिने अलङ्कृतेषु वाहनेषु सवाद्यघोषं वर्णरञ्जितशोभायात्राद्वारा नीत्वा जले मूर्तयः निमज्ज्यन्ते । महत्तवम्
नवतिथीषु दुर्गामातुः नवरूपाणि पूज्यन्ते ।
१)शैलपुत्री
२)ब्रह्मचारिणी
३)चन्द्रघण्टा
४)कूष्माण्डा
५)स्कन्दमाता
६)कात्यायनी
७)कालरात्रिः
८)महागौरी
९)सिद्धिदात्री
एताः नवदुर्गाः नवरात्रे पूज्यन्ते । पदायां विशेषमुहुर्ते कलशः स्थाप्यते ।कलशे भगवत्याः वासः इति मत्वा पूजनं क्रियते । भगवती जगदम्बा दुर्गामाता अस्मिन् जगति मातृ-शक्ति-विद्या-बुद्धिप्रभृतिरूपैः व्याप्ता भूत्वा अस्मान् सर्वविधया समृद्धशालिनः करोति ।अतः अस्माभिः अपि नवरात्रे विधिपूर्वकं व्रतम् आचर्य भगवत्याः सेवा पूजाराधनादि-माध्यमेन क्रियते ।
सामूहिकरूपेण बहवः जनाः दुर्गामातुः मूर्तिस्थापनं कुर्वन्ति । नव दिनानि पर्यन्तं सततं श्रद्धया भक्त्या च पूजयन्ति । दशम्यां तिथौ मूर्तिविसर्जनं कृत्वा पुनः नवरात्रे आगन्तुं प्रार्थयन्ते ।
आदिशक्तेः त्रिणी रुपाणि सन्ति ।महाकाली, महालक्ष्मीः, महासरस्वती चेति । अस्मिन् उत्सवे आदौ दिनत्रये महकाल्याः पूजा, मध्ये दिनत्रये महालक्ष्म्याः पूजा अन्ते दिनत्रये महासरस्वत्याः पूजा प्रचलति । दशम्यां च विजययात्रा भवति । विजयदशम्याः अपरं नाम विद्यादशमीति । विद्यारम्भाय विद्यादशमी प्रशस्तं दिनम् इति मन्येन्ते । नवरात्रमहोत्सवः दुष्टशक्तिनाशस्य द्योतकः । जातिमतभेदं विना सर्वेऽपि जनाः एतस्मिन् उत्सवे भागं वहन्ति, सन्तोषं च अनुभवन्ति ।











