प्रधानमन्त्री ०५-१०-२०२३ दिनाङ्के राजस्थाने स्वास्थ्याधारभूत संरचना सुदृढं कर्तुं महत्वपूर्ण परियोजनानाम् आधारशिला संस्थापविष्यति। एतासु परियोजनासु जोधपुर अखिल भारतीयायुर्विज्ञान संस्थाने पञ्चाशत्तर विरात शयानां ट्रॉमा सेंटर इत्येत आपातकेन्द्र सम्पूर्ण प्रधानमन्त्री आयुष्मान्-भारत-स्वास्थ्याधारभूत संरचनाभियानस्य अभियानान्तर्गत सम निरीक्षण केन्द्रः युताः परियोजनाः च सम्मिलिताः सन्ति। श्रीमोदी जोधपुर-विमान-मात्रे अत्याधुनिकस्य नूतन स्थानक भवस्य शिलान्यास करिष्यति। एतत् न्यूनान्तु सहस्र-वर्ग मीटर- मिते क्षेत्रे अशात्यधिक चतुरशत-कोटि-रूप्यकाणां व्ययेन निर्मास्यते । एतस्मात् नवीन स्थानक भवनात् व्यस्त समयावधी पञ्चशतोत्तर- द्विसहस-यात्रिणः यात्रासेवायाः लाभ प्राप्स्यन्ति, अपि च अनेन क्षेत्रस्य पर्यटने अपि वृद्धिः भविष्यति ।
प्रधानमन्त्री आईआईटी जोधपुर -परिसरस्य अपि लोकार्पण करिष्यति । अस्य निर्माण पञ्चविशदधिकशतसहस्र-कोटि-कण व्ययः जातः अस्ति । राजस्थानस्य केन्द्रीय विश्वविद्यालये आधारभूत संरचना विकासस्य अन्तर्गत उन्नत प्रयोगशालायाः, कर्मचारि- आवास-क्रीडा-योग-विज्ञानकेन्द्रस्य च उद्घाटन करिष्यति । श्री मोदी विश्वविद्यालये केन्द्रीय पुस्तकालयस्य छात्रावास भवनस्य चापि शिलान्यासं करिष्यति । प्रधानमन्त्री प्रायः पञ्चसप्तत्यधिक- चतुश्शताधिकैक सहस्र-कोटि- रूप्यकाणां विभिन्न मार्ग-परियोजनाना अपि शुभारम्भं करिष्यति । अनेन संपर्क- सौविध्यं विवर्ध्य व्यापार जीविकयोः सर्जने वृद्धिः भविष्यति। राजस्थानस्य यात्रावधी श्रीमोदी द्वयो नूतन-रेलयानयोः ध्वजमुत्थाप्य शुभारम्भं करिष्यति । अस्यां यात्रायां जैसलमेर-स्थात्रात् दिल्ली- पर्यन्तं रूनिचा एक्सप्रेस् मारवाड़-जंक्शन- स्थात्रात् खांबली-घाट-पर्यन्तं धरोहर रेलयानं सम्मिलिते स्तः। धरोहर रेलयानेन पर्यटनाय प्रोत्साहनं प्राप्स्यते क्षेत्रे जीविकायाः नवीनावसराः च सर्जिष्यन्ते। एताम् परियोजनाम् अतिरिच्य प्रधानमन्त्री अन्ये द्वे रेलपरियोजने राष्ट्राय समर्पयिष्यति। एतयोः पञ्चाशदुत्तर-एकशत-किलोमीटर- मितस्य देगाना-‘राई-का-बाग’ रेल-विस्तारं, अष्टपञ्चाशत्- किलोमीटर मितस्य देगाना- कुचामन सिटी रेल विस्तारं इत्यनयोः द्विधाकरण- परियोजने सम्मिलिते स्तः । प्रधानमन्त्री नरेन्द्र मोदी अद्य मध्य प्रदेशस्य यात्रां विधास्यति। सः राज्ये षट् शताधिक द्वसहस्र- कोटिरूप्यकाणां परियोजनानाम् उद्घाटनं लोकार्पणं च करिष्यति । एताः परियोजना: मार्ग रेल-वात्येन्धन नलिकावास-स्वच्छ पेयजल-सम्बद्धाः वर्तन्ते। श्रीमोदी इंदौरनगरे लाइट हाउस परियोजनायाः उद्घाटनं करिष्यति । अस्याः निर्माण प्रधानमंत्री आवास योजना- शहरी इत्यस्याः अन्तर्गत अष्टाविंशत्यधिकैक- शत-कोटि-रूप्यकाणां व्ययेन सञ्जातमस्ति । अस्याः अन्तर्गत एकसहस्रतः अधिकाः परिवाराः लाभान्विताः भविष्यन्ति । प्रधानमन्त्री अष्ट-चत्वारिंशद्-अर्बुद-रूप्यकाणां विभिन्न-मार्ग-परियोजनानाम् उद्घाटनं लोकार्पणं च करिष्यति, येन मध्यप्रदेशे मार्ग-संरचनायाम् उन्नतिः भविष्यति ।











