इसरो गगनयानपरीक्षणम्।

इसरो इति भारतीयान्तरिक्षानुसन्धान-सङ्घटनेन अय स्वस्य गगनयानस्य आपत्स्थितौ अन्ततरिक्ष यात्रिणः सुरक्षित-प्रत्यानेतुः प्रणाल्याः सफलं प्रदर्शनं कृतम् । श्रीहरिकोटायाः गगनयानाभियानस्य क्रू मॉडल इत्यस्य सफलं परीक्षणं विहितम्। पञ्चविंशत्युत्तर -द्विसहस्रतमे वर्षे मानवयुक्तम् अन्तरिक्षाभियानं प्रेषयितुं सज्जतायाः प्रतिरूपम् इदं टीवी डी-1 अभियानम् अद्य परीक्षितम् । अवधेयं यत् इसरो इत्यनेन सङ्घटनेन आगामि-वर्षे मानवरहिताभियानं पूरणीयमस्ति । गगनयानस्य मुख्योद्देश्यं सुरक्षापूर्वकम् अन्तरिक्ष-प्रवेशः अनतरिक्ष यात्रिणां सुरक्षा अथ क्रू-मॉडल इत्येतस्य परीक्षणम् अवर्तत ।
त्रिवारं स्थगनानन्तरं गगनयानम् अद्य प्रातः दश वादने सफलतापूर्वकं प्रक्षेपितम्। श्रीहरिकोटायाः प्रथम- प्रेक्षेपण स्थलात् प्रक्षेपितं गगनयानं नव-निमेषानन्तरं श्रीहरिकोटायाः दश-किलोमीटर परिमितात्-दूरे बङ्गाल खात्यां पतितम् । तत्र एतस्य प्राप्तये नौसैन्यबलं सन्नद्धम् अवर्तत । नौसैन्यबलेन एतत् यानं
प्राप्तम् । प्रक्षेपणस्य अनन्तरम् इसरो इत्यस्य अध्यक्षः सोमनाथः अवोचत् यत् सर्वे मानदण्डाः प्रक्रियाः च योजनानुसारं सन्ति। परीक्षणेन स्पष्टमस्ति यत् अन्तरिक्ष-यात्रिणः कस्याः अपि प्रौद्योगिक समस्यायाः स्थितौ सुरक्षापूर्वकं बहिरानेतुं शक्यन्ते। भारतीयान्तरिक्षानुसन्धान-संस्थानस्य दलं भविष्ये गगनयानस्य प्रक्षेपणाय सन्नद्धं वर्तते । प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् टी.वी. – डी-१, इत्येतस्य परीक्षणस्य साफल्येन भारतं प्रथम मानवान्तरिक्ष- प्रस्थान-कार्यक्रमं प्रवर्तितुम् एकस्मिन् चरणे अग्रे प्रवर्धितम् । श्रीमोदिना अस्यै सफलतायै इसरो इत्येतस्य वैज्ञानिकाः वर्धापिता।