प्रधानमन्त्री निर्धन- कल्याण- अन्न योजना अग्रिमेभ्यः पञ्चवर्षेभ्यः संवर्धिता । इति प्रधानमन्त्री नरेन्द्रमोदी उद्घोषितवान् अस्याः योजनायाः अन्तर्गतं अशेषेदेशे अशीति- कोटि-निर्धन जनेभ्यः प्रतिमासं पञ्चकिलोग्राममितं खाद्यान्नम् निःशुल्करुपेण प्रदास्यते। ध्यातव्यं वर्तते यत् इयं योजना अस्य वर्षस्य दिसम्बरमासे समाप्ता
भविष्यति येन हि प्रधानमन्त्रिणा निर्णयोऽयं निर्णीतः । प्रधानमन्त्रिणा निगदितं यत् प्रशासनस्य ध्येयं निर्धनानां कल्याणं विद्यते। छत्तीसगढे प्रर्वतन निदेशालयेन विहितं कार्याचरणं उल्लेखयन् असौ समुदीरितवान् यत् छत्तीसगढस्य प्रशासनेन स्पष्टीकरणीयं यत् ‘महादेव ऐप’ इति तन्त्रांशस्य प्रकरणस्य आरोपिभिः सह तेषां संबंध: कीदृशः अस्ति । उल्लेखनीयं यत् मोदीसर्वकारेण चालितायाः निःशुल्कराशनयोजनायाः दरिद्रतारेखायाः अधः निवसतां जनानां अपारं लाभः प्राप्यते। सीमान्तकृषकाः अपाङ्गजनाः अपि तस्य लाभं प्राप्नुवन्ति ।











