योगेन आरोग्यस्य तथा आध्यात्मिक्या: चेतनाया: विकासो भवति – कुलपति: आचार्य: मेनन्

वार्ताहरः – डॉ.दिनेश: चौबे, उज्जयिनी

उज्जयिनीस्थस्य महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य योगविभागेन आयोजितस्या: सप्तदिवसीया: नि:शुल्काया: योगचिकित्साकार्यशालाया: समापनं विश्वविद्यालयस्य योगेश्वरश्रीकृष्णभवनस्य सभागारे पूर्वाह्णे एकादशवादने अभूत्।कार्यक्रमस्य शुभारंभ: वाग्देव्य: सरस्वत्या: पूजनेन वैदिकमंगलाचरणेन च जात: तदनु विश्वविद्यालयस्य छात्रै: कुलगानं प्रस्तुतम्। मुख्यवक्तृरूपेण वरिष्ठयोगविशेषज्ञेन श्रीरमेशबीझामहोदयेन योगचिकित्साया: प्रभावस्य विषये विस्तारेण सूचितं महोदयेन योगाभ्यासचिकित्सा पद्धतया निरोगीजीवनस्य सूत्राणि उद्घाटितानि योगानुरूपं आसनानाम् अभ्यासेन चित्तं शुद्धं भवति अत: जीवनशैल्याम् अनिवार्यरूपेण योगं योजनीयम्। कार्यशाळाया: अनुभवस्य विषये योगविभागस्य छात्रा श्रीमत्या मेघाचंदेल, दर्शनापाटीदार च स्व अनुभवम् श्रावितवत्यौ कार्यक्रमस्य अध्यक्ष: विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजय कुमारसीजीवर्य: आसीत् । महोदयेन उक्तं यत् योगाभ्यासेन सह नैतिकमूल्यानां समायोजनेन योगाभ्यासस्य प्रभाव: तीव्रगत्या भवति एवञ्च साधकस्य सम्पूर्णस्य व्यक्तित्वस्य विकासो जायते कार्यक्रमस्य संयोजनं योगविभागाध्यक्षा डॉ. पूजाउपाध्यायमहोदया संचालनं सुश्रीईशापाटीदार प्रतिवेदनं सुश्रीतनीषाशर्मा आभारप्रदर्शनञ्च डॉ. वरुणआहूजा कृतवान् कार्यक्रमे वास्तुविभागाध्यक्ष:
डॉ. शुभमशर्मा, व्याकरणविभागाध्यक्ष: डॉ. अखिलेशकुमारद्विवेदी प्राध्यापका: छात्र- शोधच्छात्रा: अन्ये च उपस्थिता: आसन् ।