सम्प्रति भारतीयार्थव्यवस्था, देशस्य वैश्विकसम्मानं विश्वसनीयता च बहुविधं वर्धिताः अस्ति इति उक्तवान् उपराष्ट्रपतिः जगदीपधनखड़ः

सम्प्रति भारतीयार्थव्यवस्था, देशस्य वैश्विकसम्मानं विश्वसनीयता च बहुविधं वर्धिताः सन्ति इति उक्तवान् उपराष्ट्रपतिः जगदीपधनखड़ः उक्तवान् यत् भारतस्य अर्थव्यवस्था अपि च देशस्य वैश्विकसम्मानं विश्वसनीयता च अन्तिमेषु वर्षेषु बहुविधं वर्धिताः सन्तिा श्री धनखड़ः अद्य नवदिल्लीनगरे आकाशवाण्याम् प्रतिष्ठिते डॉ. राजेन्द्रप्रसादस्मारके व्याख्यानं प्रयच्छन् वदत्। सः अवदत् यत् अद्य विश्वं भारतस्य वचनं श्रोतुं तस्य विचाराणां च सम्मानं कर्तुम् इच्छति तथा च समग्रं विश्वं भारतस्य यूनां कौशलं प्रतिभां च स्वीकरोति।
उपराष्ट्रपतिः अवदत्, एकदशकपूर्व भारतीय-अर्थव्यवस्था पञ्चसु शिथिल-अर्थव्यवस्थासु गण्यते स्म, परन्तु अद्यत्वे सा विश्वस्य पञ्चम-बृहत्तम-अर्थव्यवस्था अस्तिा धनखड़महोदयः प्रकाशितवान् यत् भारतं विश्वस्य प्रथमः देशः जातः यः चन्द्रस्य दक्षिणाग्रं प्राप्तवान्।
प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मनकी बात-कार्यक्रमस्य विषये उपराष्ट्रपतिः धनखड़ः अवदत् यत्, सम्भवतः एषः आकाश्वाणयाः इतिहासस्य प्रथमः कार्यक्रमः अस्ति, यः एतावान् नियमितः । सः अवदत्, प्रधानमन्त्री देशवासिना सह संवादं कर्तुं आकाशवाण्या: चयनं कृत्वा तस्य माध्यमेन संचारक्रान्तिं कृतवान्। श्री धनखड़ः उक्तवान् यत् मन की बात इति देशस्य जनानां चर्चा, जनानां हृदयं च प्राप्नोति।
उपराष्ट्रपतिः अवदत् यत् कस्यापि देशस्य अर्थव्यवस्थायाः च सुदृढीकरणाय केषाञ्चन मूलभूतवस्तूनाम् उत्पादनम् आवश्यकम् अस्तिा
श्री धनखड़ः उक्तवान् यत् अस्मिन् अमृतकाले भारतं शीर्षस्थाने नेतुम् देशस्य युवजनानां सामर्थ्यं वर्तते। सः अवदत् यत् भारतं पुनः तदा एव विश्वनेतृत्वेन उद्भवति डॉ. राजेन्द्रप्रसादस्मारकव्याख्यानस्य आयोजनं आकाशवाणीद्वारा आयोजितम्। डॉ.राजेन्द्रप्रसादस्मारकम् भारतस्य प्रथमराष्ट्रपतिः, यः सरलतायाः प्रतिरूपः, प्रसिद्धः विद्वान्, महान् दूरदर्शी च आसीत्, यस्य मनसि भारतं भारतीयत्वं च आसीत्, तस्य स्मृतौ अस्ति। कार्यक्रमे सूचना- प्रसारण- सचिवः अपूर्व चन्द्रः, प्रसार भारती इत्यस्य मुख्य कार्यकारी अधिकारी गौरव द्विवेदी, आकाशवाण्याः प्रधान महानिदेशक डॉ. वसुधा गुप्ता एवम् अन्ये वरिष्ठाः अधिकारिणः आसन्।