संसद्द्भवनम् अतिमहत्वपूर्ण स्थानमस्ति, यत्र भारतस्य विकासस्य आधारशिला स्थाप्यते, अथ च अत्र जनाकांक्षाः अपि पूर्यन्ते- नरेंद्र मोदी

संसदः शीतकालिकं सत्रम् अद्यारभ्य प्रारब्धम्। प्रथमे दिवसे केन्द्रीय विश्वविद्यालय- संशोधन विधेयकम् – त्रयोविंशाधिकद्विसहस्रम् इति लोकसभायां प्रस्तुतम्। विधेयकस्य उद्देश्यं तेलंगानायां सम्मक्का-सरक्का-केन्द्रीय-जनजातीय विश्वविद्यालयस्य स्थापनार्थम् अधिनियमः ‌द्विसहस्रनव इति संशोधनीयो वर्तते। केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः सदने विधेयकं प्रास्तौत्, ततः परं गतसत्रकाले बसपेति दलस्य दानीश- अंसारी-सम्बद्ध-प्रकरणं बसपेति-दलीय-सांसदैः उत्थापितम्, तेषां कथनम् आसीत् यत् गतसत्रे भाजपेतिदलीयेन लोकसभा-सांसदेन रमेशविधूडिवर्येण दानिशं विरुध्य आपत्तिजनकटिप्पणी विहिता आसीत्। सदस्यानां कोलाहल-कारणात् लोकसभा मध्याहन‌द्विवादनं यावत् स्थगिता। अनेन सहैव निम्नसदनेन तेषां षड् पूर्वसदस्यानां कृते अपि श्र‌द्धांजलिः समर्पितः येषां निधनं जातम् आसीत्। राज्यसभया अपि स्वीय- पूर्व-पञ्च-सदस्यानां कृते श्र‌द्धांजलिः समर्पितः। संसदः शीतकालिक-सत्रम् अस्य मासस्य दवाविंश-दिनाङ्क-पर्यन्तं सम्प्रवर्तिष्यते अपि च अस्मिन् सत्रे एकोनविंश-विधयकेषु चर्चा भविष्यति। सत्रस्यारम्भात् पूर्व प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना संसदः बहि संचारतन्त्रैः सह वार्तालापः कृतः, तत्र श्रीमोदिना कथितं यत् लोकतन्त्रस्य मन्दिर संसद् वर्तते सा च जनाकांक्षाणां सम्पूर्तये विकसित-भारतस्य च आधारशिलां स्थापयितुं किञ्चन् महत्वपूर्ण-मंचत्वेन वर्तते। प्रधानमन्त्रिणा सांसदाः साग्रहं निवेदिताः यत् यानि विधेयकानि तत्र संसत्पटले स्थापयिष्यन्ते तेषां विषये ते सांसदसदस्याः गहनचचर्चा कुर्युः तदर्थ च सज्जीभूय आगमिष्यन्ति तर्हि वरं भविष्यति। तेन इदमपि प्रोक्तं यत् यदा एतस्य नवीनसंदद्द्भवनस्य उद्घाघाटनं जातम् आसीत् तदात्र किञ्चन लघुसत्रं जातमासीत् अपि च कश्चन ऐतिहासिकनिर्णयः स्वीकृतः आसीत् प्रधानमन्त्रिणा प्रोक्तं यत् अन्तिमपादक्रमे विद्यमानानां महिलानां यूनां कृषकाः निर्धनानाञ्च सशक्तीकरणेन देशस्य उज्जवल-अविष्यस्य मार्गम् आविष्करिष्यते । श्रीमोदिना इदमपि कथितं यत् विपक्षि-सांसद-सदस्याः विपक्षिदलानि च संसत्कार्ये सहयोगं कुर्युः अपि च सकारात्मकदृष्ट्या चिन्तयेयुः, प्राप्तपराजयस्य प्रतिकारदृष्ट्या संसदि कोलाहलं कलहं वा न कुर्युः, संसदि विद्वेषः नकारात्मकता च न शोभते तच्च लोकतन्त्राय अपि समीचीना नास्ति। प्रधानमन्त्रिणा इदमपि कथितं यत् लोकतन्त्रस्य कृते विपक्षः अणि महत्त्वपूर्णस्थानं विधत्ते परन्तु तेन तावता एव सक्षमेन भवितव्यं स्यात्।