लोकसभायां त्रीणि महत्त्वपूर्णानि विधेयकानि पारितानि
१ अपराधसम्बद्ध-विधेयकानि
लोकसभाद्वारा भारतीय-न्याय-संहिताविधेयकं, भारतीनागरिक सुरक्षासंहिताविधेयकं तथा च भारतीय-साक्ष्यविधेयकम् (द्वितीयम्) इत्येतानि पारितानि । भारतीय-न्याय-संहिताविधेयकं भारते अपराधसम्बद्धविधेः भारतीय दण्ड संहिता (आइ पी सी) इत्यस्य स्थानं स्वीकर्तुम् प्रावधानं करोति । नवीनविधेयकं सामाजिकसेवामपि दण्डत्वेन योजयति । भारतीयनागरिकसुरक्षाविधेयकं आपराधिकप्रक्रियासंहिता (सीआर पी सी), इत्येतस्य स्थानं ग्रहीतुं प्रावधानं करोति । एतस्य अन्तर्गतं निगडनम्, अभियोजनम्, इत्येतासां प्रक्रियाणां प्रावधानं करोति । भारतीय-साक्ष्यविधेयकं भारतीयसाक्ष्यविधेः स्थानं ग्रहीतुं प्रावधानं करोति ।
२ दूरसञ्चार-विधेयकम्
लोकसभायां दूरसञ्चारविधेयक २०२३ संशोधनैः सह पारितम् । विधेयकेन दूरसञ्चार सेवानां विकासेन, विस्तारेण, संचालनेन च
सम्बद्धस्य विधेः संशोधनं, समैक्यं च कर्तुं प्रावधानं क्रियते । विधेयकेन प्रावधानं कृतम् अस्ति यत् दूरसंचार सेवाप्रदातारः कस्यापि
सत्यापनीयबायोमेट्रिक-आधारितपरिचयस्य माध्यमेन स्वप्रयोक्तृणां परिचयस्य सत्यापनम् अवश्यं कुर्युः। विधेयके एतादृशानि
प्रावधानानि सन्ति यत् केन्द्रसर्वकारः दूरसंचारसम्बद्धगतिविधीनां प्राधिकरणं प्रदास्यति, स्पेक्ट्रमं च नियुक्तं करिष्यति। अपि च आज्ञापयति यत् अवरोधसम्बद्धा प्रक्रिया सुरक्षा च केन्द्रसर्वकारेण निर्धारिता भविष्यति।
३ केन्द्रीयवस्तुसेवाकरम्
संसदि केन्द्रीयवस्तुसेवाकर (द्वितीयसंशोधन) विधेयक, २०२३ राज्यसभायाः लोकसभायां प्रत्यागत्य पारितम् । उच्चसदनेन चर्चा
कृत्वा विधेयकं प्रत्यागतम्। लोकसभायां पूर्वमेव एतत् विधानं पारितम् आसीत्। विधेयकस्य मध्ये केन्द्रीयवस्तूनाम् सेवाकरविधिः,
२०१७ तमस्य वर्षस्य संशोधनस्य प्रावधानि सन्ति येन केन्द्रसर्वकारः न्यायाधिकरणस्य स्थापनां कर्तुं शक्नोति ।











