वार्ताहरः -डॉ.दिनेश चौबे, उज्जयिनी
उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये विश्वविद्यालयस्य प्रशासनिकस्य भवनस्य अन्नपूर्णासभागारे अशैक्षणिककर्मयोगीबन्धूनां कृते प्रशासनिकगुणवत्तायां दक्षतां आनेतुं प्रशिक्षणकार्यक्रमस्य आयोजनं कृतम् । माननीयस्य कुलपते: आचार्यविजयकुमार सीजीवर्यस्य अध्यक्षतायाम् एवञ्च आदरणीयस्य कुलसचिवस्य डॉ.दिलीपसोनी महोदयस्य मार्गदर्शने प्रशिक्षणमिदं अभूत् । बेंगलुरुत: आगता संस्कृतस्य आधुनिकी विद्याया: च विदुषी आचार्या शिवानी वी. महोदया प्रशिक्षणं प्रदत्तवती । कार्यक्रमस्य प्रस्तावना डॉ. शुभम्शर्ममहोदय: ज्योतिर्विज्ञानविभागाध्यक्ष: प्रस्तुतवान् । आचार्या शिवानी महोदया प्रशिक्षणं ददाना उक्तवती यत् प्रशासनिकविभाग: संस्थाया: महत्त्वपूर्णविभाग: भवति प्रशासनिकानि कार्याणि यदा दक्षतया: सह क्रियन्ते तदा गुणवत्तायां संवर्धनं स्वाभाविकं भवति। महोदयया क्रमशः स्थापनाविभाग;, वित्तम्, ग्रंथालय: ,परीक्षा, प्रवेश: , शोधम् , निर्माणम्, आदय: विभागानां कुशलतापूर्वकं संचालनार्थं प्रभाविप्रशिक्षणं दत्तवती। अस्मिन् अवसरे विश्वविद्यालयस्य वित्ताधिकारि: श्रीदिनेशचौरसियामहोदय: अपि कार्यक्रमं संबोधितवान्। विश्वविद्यालयस्य सर्वेपि कर्मयोगिन: महता आनन्देन उत्साहेन च अस्मिन् प्रशिक्षणकार्यक्रमे भागं गृहीतवन्तः ।कार्यक्रमस्य संचालनं श्रीमहेंद्रउपाध्यायमहोदयेन आभारप्रदर्शनञ्च डॉ.उपेंद्रभार्गव महोदयेन कृतम्।











