इसरो/एक्सपोसैट्

भारतीयान्तरिक्षानुसन्धान संघटनेन इसरो इत्यनेन ध्रुवीय-उपग्रह-प्रक्षेपणयानेन-पी.एस्.एल्.वी.-सी-अष्टपञ्चाशत् इत्यनेन एक्स-रे पोलरी-मीटर सैटेलाइट (एक्सपोसेट) इति अन्तरिक्षे प्रक्षेपितम्। प्रक्षेपणमिदं आङ्ग्ल नव वर्षे दशनिमेषाधिक नववादने आन्ध्रप्रदेशे श्रीहरिकोटातः अभवत्। अभियानमिदं खगोलीय-स्रोतसः ब्रह्मांडीय एक्सरे इत्यस्य ध्रुवीकरणस्य अध्ययनाय भारतस्य प्रथमः समर्पितः वैज्ञानिकानां प्रयासः प्रर्शयति। अस्य प्रक्षेपणस्यानन्तरं भारतं ब्लैक होल अपि च न्यूरॉन नक्षत्राणां अध्ययनाय विशिष्ट खगोल-शास्त्रीय-वेधशाला प्रेषितुं द्वितीयं राष्ट्र जातम्।
इसरो इत्यस्य अध्यक्षेण एस. सोमनाथेन ख्यापितं यत् एक्सपोसैट इत्यस्य सफलं प्रक्षेपणं जातम्। एक्सपोसैट इत्यनेन सह प्रक्षेपितान्याः दश पेलोड, येभ्य:
संस्थानेभ्यः सन्ति तेषु टेक मी टू स्पेस, एल्.बी. एस्. इंस्टीट्यूट ऑफ टेक्नोलॉजी फॉर वुमन, के. जे. सौमया इंस्टीट्यूट ऑफ टैक्नोलॉजी, इंस्पोसिटी स्पेस लैब्स प्राइवेट लिमिटेड, बेलाट्रिक्स एयरोस्पेस प्राइवेट लिमिटेड अपि च इसरो इत्यस्मात् त्रयः पेलोड इति सम्मिलिताः सन्ति। वर्षस्य प्रथम-प्रक्षेपण सहैव अवकाशस्य समयः अपि आसीत। अतः अन्तरिक्ष केन्द्रस्य दर्शकदीर्घायां वयोवृद्धानां उपस्थितिः आसीत्। बाला इसरो इत्यस्य अभियान विषये स्वय विचारान् प्रकटयितुं प्रोत्साहिताः।