सुहृदः गुप्तचरः कौशिकः (बाल कथा)

तद्दिने प्रातःकाले कौशिकः यतार्थः गुप्तचरः इव अनुभूतवान्, यतः तस्य हस्ते एकः अतिनवीनः करदीपः बहुलीकरणकाचश्च आस्ताम् । ह्यः एव सः आपणे क्रीतवान् आसीत् । पितामहः उक्तवान्, ” वत्स ! अद्य भवान् वास्तविकः गुप्तचरः इव भाति। भवान् किम् किम् अन्वेक्ष्यति इति ज्ञतुम् मम कुतूहलः अस्ति ” इति। तेषां क्षेत्रस्य समीपस्थं वनं प्रति उत्साहेन प्रस्थितवान् । मार्गे आर्द्र तृणं दृष्ट्वा तस्य सूक्ष्मबुद्धिः अवदत्, ” म्म्! अत्र वृष्टिः अभवत् इति स्पष्टम्,” इति । तस्य करदीपः काचश्च उत्तमौ एव! तावत् सः किमपि नूतनं दृष्टवान्! गुप्तचरस्य प्रथमे प्रयासे अल्पम् अपि बहु एव! रक्तवर्णमयानि कतिपयानि वस्तूनि तेन दृष्टानि ! तानि कानि? तानि अहिच्छत्राणि इव भान्ति । किन्तु गुप्तचरः निरूपणं विना किमपि न न मन्दं मन्दम् उपसृत्य काचं पुरतः आदाय तीक्ष्णदृष्ट्या । तीक्ष्णदृष्ट्या अहो आश्चर्यम् ! बहु आश्चर्यम् !! तत् एकं साधारणं छत्रम् । तस्य अधः एका लघुबालिका उपविष्टा आसीत्! कौशिकः काचस्य साहाय्येन तां सम्यक् अवलोकितवान। धैर्येण उच्चैः पृष्टवान्, ” भवती का? अत्र किं करोषि ?” इति।
तस्य एतम् उच्चस्वरवचनं शृत्वा काचेन बहुलीकृतं बृहत् नेत्रं वीक्ष्य च सा अतिभीता । उच्चस्वरवचनं छत्रं हस्तात् भ्रंशितवत् । सा कम्पन्ती पतितवति। कौशिकः तां काचमूलकम् पुनः अपश्यत् । सा नितरां चिन्ताग्रस्ता आसीत् ।
सः प्रीतिपूर्वकम् उक्तवान्, “चिन्ता मास्तु! अहं तव मित्रम् ! त्वां कदाचित् न क्लेशयामि” इति। सा तं स्थिरदृष्ट्या निरीक्ष्य मन्दस्वरेण पृष्टवती, “इतोपि वर्षति किम्?” इति। कौशिकः अवदत्, “वृष्टिः समाप्ता । इदानीं छत्रं न आवश्यकम् । स्वमित्राण्यपि छत्राणि स्थापयितुं निवेदयतु,” इति। सा लघुबालिका भयं त्यक्त्वा कौशिकस्य शिरस्त्रम् आरूढवती। तं सम्मुखीकृत्य मन्दहासं प्रसारितवति। ” मम नाम ललिता। सपरिवारम् अस्मिन् वने एव वसामि। वयं गृहं निर्मातुं न शक्नुमः। अतः यदा यदा वर्षति, तदा एतैः छत्रैः एव रक्षिताः भवामः। ” अहं त्वाम् तव परिवारजनान् च गृहनिर्मणाय प्रशिक्षणं दास्यामि। मम तातः वदति, यत् अहम् अग्रे कदाचित् स्थपतिः भवेयम्” इति कौशिकः अवदत् । इत्थं कौशिकस्य गुप्तचरः भवितुम् स्वप्नः समाप्तः, स्थपतिः भवितुं स्वप्नः समारब्धः !