सामूहिक-सूर्यनमस्कारस्य गिनिज विश्व कीर्तिमान

आङ्ग्ल नववर्षस्य प्रथमे-दिने गुजरात-राज्ये सामूहिक-सूर्यनमस्कार कृत्वा गिनिज विश्व कीर्तिमान रचितम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना आङ्ग्ल नववर्षस्य अवसरे गुजरातस्य उपलब्धेः प्रशंसा कृता। एकस्मिन् सामाजिकान्तर्जाल सन्देशे प्रधानमन्त्रिणा उक्तं यत् गुजराते अष्टोत्तर शत-स्थानेषु सर्वाधिकजनैः सममेव सूर्य-नमस्कारस्य गिनीज विश्व कीर्तिमानं रचयितुम् उल्लेखनीयोपलब्धिना वर्षस्यास्य चतुर्विंशत्यधिक-द्विसहस्रस्य स्वागतं कृतम्। श्रीमोदिना उक्तं यत् अस्माकं संस्कृत्याम् अष्टोत्तरशत् संख्यायाः विशेष महत्वं विद्यते । तेन प्रतिपादितं यत् सूर्य नमस्कारस्य आयोजन-स्थलेषु प्रतिष्ठित-मोढेरायाः सूर्य मंदिरमपि सम्मिलितमस्ति, यत्र बहवः जनाः अस्मिन् कार्यक्रमे भागं स्वीकृतवन्तः। श्रीमोदिना उक्तं यत् इदं यथार्थरूपेण योग संस्कृती प्रति जनानां प्रतिबद्धतायाः परिचायकः अस्ति। प्रधानमन्त्रिणा जनै: आग्रहं कृता यत् ते सूर्यनमस्कारं दिनचर्यायां योजयन्तु इति।