अयोध्यायाः राममन्दिरं किञ्चन हिन्दूमन्दिरम् । एतत् मन्दिरं उत्तरप्रदेशराज्यस्य अयोध्यायां रामजन्मस्थाने विद्यते । हिन्दूजनाः एतत्स्थानं भगवतः श्रीरामचन्द्रस्य जन्मस्थानं मन्यन्ते । रामं विष्णोः सप्तमः अवतारः इति मत्वा पूजयन्ति च । १५२८ तमे वर्षे मुघल् राजा बाबरः राममन्दिरं भङ्क्त्वा बाबरीमस्जिद् इति यवनप्रार्थनामन्दिरं निर्मितवान् । रामजन्मभूमिविषये बहवः विवादाः आसन् । १९९२ तमे वर्षे करसेवकानां गणेन बाब्रि मस्जिद् भङ्क्तम् ।
भगवतः विष्णोः अवताररूपेण सम्मतः रामः व्यापकरूपेण हिन्दुभिः पूज्यते । प्राचीनभारतस्य महाकाव्ये रामायणे रामः अयोध्यायां जातः इत्युल्लेखः वर्तते । अतः अयोध्या रामजन्मभूमिः । रामस्य बालरूपम् एव रामलल्ला इति इति उच्यते । १५ शतके बाबरेण राममन्दिरस्थाने यवनप्रार्थनामन्दिरः निर्मितः । हिन्दूदेवालयः पुनर्निर्मातव्यः इति प्रयत्नाः तदानीमेव आरब्धाः । १८५० तमे दशके पुनः हिंसात्मकप्रतिभटनं आरब्धम् ।
विश्वहिन्दूपरिषदा रामजन्मभूमेः शिलान्यासार्थं १९८० तमे वर्षे पुनः प्रयत्नः आरब्धः । अलहाबाद् उच्चन्यायालयेन प्रयत्नः अवरुद्धः । ततः अविवादिते स्थले मन्दिरं निर्मातुं अनुमतिः प्रार्थिता । तदानीन्तनः गृहसचिवः बूटासिंहः विश्वहिन्दूपरिषदः नायकाय अशोकसिङ्घलाय औपचारिकरूपेण अनुमतिं दत्तवान् । नवंबर् ९ १९८९ तमे दिने विश्वहिन्दूपरिषदः नेतृत्वे साधूनां गणेन शिलान्यासः कृतः ।बिहारस्थः दलितनायकः शिलान्यासं कृतवत्सु अन्यतमः आसीत् ।
६ डिसेम्बर् १९९२ तमे दिनाङ्के विश्वहिन्दूपरिषदा भारतीयजनतापक्षेण च १५०००० जनानां काचित् शोभायात्रा अयोध्यायां आजयोजिता । शोभायत्रायां भागग्रहीतारः करसेवकाः इति प्रसिद्धाः । शोभायात्रा हिंसारूपं गता । करसेवकाः भद्रताम् अपरिगणय्य बाबरीमस्जिदं ध्वस्तवन्तः ततः हिन्दूमुस्लिंगणयोः मिथः कलहाः जाताः । न्यूनातिन्यूनं २००० जनानां प्राणार्पणम् अभवत् ।
अग्रिमेषु दिनेषु विवादविषये न्यायालये चर्चाः प्रवृत्ताः । देवालयस्य देवस्य रामलल्ला इत्यस्य नाम्ना न्यायलये भूम्यर्थं प्रार्थना उपस्थापिता । विश्वहिन्दूपरिषदः ज्येष्ठः कार्यकर्ता त्रिलोकिनाथपाण्डे रामलल्ला इत्यस्य प्रतिनिधिरूपेण स्थितः । के. पराशरन् रामस्य पक्षे प्रमुखः न्यायवादी आसीत् । अयोध्यायाः विष्यये नवम्बर् ९ २०१९ तमे दिने न्यायालयेन काचित् उद्घोषणा कृता । विवादितां भूमिं रामजन्मभूमिसमित्यै दातव्या इति निर्णयः उद्घोषितः । २०२० तमे वर्षे फेब्रवरी ५ तमे दिनाङ्के संसत्भवने देवालयनिर्माणस्य विषये उद्घाणषा कृता।











