पूर्वं गङ्गातीरे एकः साधुः आसीत् । एकस्मिन् दिने प्रातःकाले सः साधुः स्नानार्थं नदीतीरं गतवान् । एका मूषिका आकाश्तः साधोः हस्तयोः पतितवती । सः साधुः मूषिकां बालिकारूपं दत्तवान् । बालिकाम् भार्यायाः कृते दत्तवान् । बालिका वर्धित्वा प्रौढा अभवत् ।
साधोः भार्या उक्तवती “आवयोः पुत्री विवाहयोग्या अस्ति , तस्याः विवाहं करणीयम्” ।
साधुः पुत्रीं पृष्टवान् ” भवती सूर्य परिणेष्यति किम् ?” पुत्री उक्तवती “अहं सूर्य परिणेतुं न इच्छामि | सूर्यः बहु उष्णः अस्ति “
साधुः सूर्य पृष्टवान् “हे सूर्य ! भवतः अपेक्षया कः श्रेष्ठः ?” सूर्यः उक्तवान् “मम अपेक्षया मेघः श्रेष्ठः”
पुत्री उक्तवती “अहं मेघं परिणेतुं न इच्छामि । मेघस्य वर्णः कृष्णः बहु शीतलः अपि “
साधुः मेघं पृष्टवान् “हे मेघ ! भवतः अपेक्षया कः श्रेष्ठः ?”
मेघः उक्तवान् “मम अपेक्षया वायुः श्रेष्ठः”
पुत्री उक्तवती “अहं वायुं परिणेतुं न इच्छामि । सः बहु चञ्चलः अस्ति”
साधुः वायुं पृष्टवान् “हे वायो! भवतः अपेक्षया कः स्थिरबुद्धिः?” वायुः उक्तवान् “मम अपेक्षया पर्वतः स्थिरबुद्धिः” । पुत्री उक्तवती “अहं पर्वतं परिणेतुं न इच्छामि| सः उत्साहकः नास्ति” ।
साधुः पर्वतं पृष्टवान् “हे पर्वत! भवतः अपेक्षया कः योग्यः ?”
पर्वतः उक्तवान् “भवतः पुत्र्याः कृते मूषकः बहु योग्यः । सः बहु उत्साहकः”
अतिचिरात् पुत्री सन्तोषेण अङ्गीकृतवती । सा उक्तवती “अहं मूषकं परिणेतुं इच्छामि”
साधुः बालिकां मूषिकारूपं दत्तवान् । साधुः मुषिकायाः विवाहः मूषकेन सह कृतवान् ।
यद्यपि मूषिका मानवरूपं प्राप्नोति तद्यपि मानवबुद्धिं न प्राप्नोति । मूषिका मूषिका एव भवति ।











