भारतीय-जनता-पार्टीति दलस्य वरिष्ठनेत्रे लालकृष्ण आडवाणी इत्यस्मै देशस्य सर्वोच्च- सम्मानः भारत-रत्न-पुरस्कारः प्रदास्यते। एकस्मिन् सामाजिक-सन्देश-अन्तर्जालपटले प्रधानमन्त्री नरेन्द्रमोदी लिखितवान् यत् असौ श्री-आडवाणी-इत्यनेन सह वार्ता अथ च अत्रावसरे तस्मै शुभकामनाः प्रदत्तवान्। प्रधानमन्त्री कथितवान् यत् भाजपेतिदलस्य वरिष्ठनेतुः भारतस्य विकासे योगदानं अविस्मरणीयमस्ति सहैव श्री-आडवाणी प्रवर्तमाने समये एकः सम्मानितः राजनेतास्ति। असौ अग्रे निगदितवान् यत् श्रीआडवाणीवर्यस्य जीवनं भूमिस्तरतः उपप्रधानमन्त्रित्वं यावत् देश-सेवायै समर्पितम् आसीत्।
प्रधानमन्त्री प्रावोचत् यत् श्रीआडवाणीवर्यः देशाय गृह-सूचनाप्रसारण-मन्त्रि-पदयोः रूपेण सेवां प्रदत्तवान्। तस्य च संसदीय-जीवनम् अनुकरणीयं समृद्ध-अन्तर्दृष्टियुतमस्ति। प्रधानमन्त्री पुनः अकथयत् यत् श्रीआडवाणीवर्यस्य दशाधिकवर्षाणां पारदर्शितां ऐक्यतां च प्रति अकाठ्य- निष्ठायाः उदाहरणम् अस्ति। श्री-आडवाणीवर्यः राजनीतिक-नैतिकता-प्रसङ्गेऽपि अनुकरणीय- मानकं स्थापितवान् सहैव राष्ट्रिय-ऐक्य-भावस्य सांस्कृतिकस्य च पुनरुत्थाने प्रयासं विहितवान्। भारतरत्नमिदं तस्मै प्रदीयमानं भावयुतं क्षणमस्ति।
सूचना-प्रसारण-मन्त्री अनुराग ठाकुरः भारतीय जनता पार्टीति-दलस्य वरिष्ठ-नेत्रे लाल- कृष्ण-आडवाणीति-अस्मै राष्ट्रस्य जनतायाश्च दशकपर्यन्तं सेवायै भारत-रत्लेन सम्मानिते सति शुभकामनाः दत्तवान्। सः एकस्मिन् सन्देशे प्रोक्तवान यत् देशस्य विकास-यात्रायां श्री- आडवाण्याः कार्याणि अपूर्वाणि सन्ति । सः देशाय राजनैतिक-सांस्कृतिक-एकतायाः स्थायि- अभिज्ञानं समर्पितवान्।











