बसन्तपञ्चमी तिथिः १३ फरवरी दिनाङ्के सायं ०२:४१ वादनतः आरभ्य १४ फरवरी दिनाङ्के परदिने अपराह्णे १२:०९ वादनपर्यन्तं भवति। एतादृशे परिस्थितौ उदयतिथि इत्यस्य मते अस्मिन् वर्षे बसन्तपञ्चमी-पर्वः फेब्रुवरी-मासस्य १४ दिनाङ्के आचर्यते ।
माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ ऋतुराजवसन्तस्य आगमनसूचना भवति। वसंतपंचमी श्रीपञ्चमी नाम्ना अपि ज्ञायते। अस्मिन् समये प्रकृतेः सौन्दर्यं चरमोत्कर्षम प्राप्नोति। सर्वत्र रमणीयतायाः दर्शनम् भवति। वृक्षेषु नूतनकिसलयरागः राजते। क्षेत्रेषु सर्षपपुष्पाणां सुषमा पीतिमा च मनोहारिणी दृश्यते। आम्रेषु मञ्जरीं परितः भ्रमंतः भ्रमराः दृश्यन्ते। कोकिलानां मधुरस्वरः चित्तम् आकर्षति। वसंतोत्सवे शीतकालस्य अनन्तरं परम्परया सौन्दरस्य पूजनं क्रियते। विविधैः पुष्पैः, नवान्नैः, फलैः च ऋतुराजस्य वसन्तस्य स्वागतं भवति। एषः उत्सवः सौन्दर्यस्य रमणीयतायाः पुष्पाणां, किसलयनां मधुरागमनस्य च उत्सवः अस्ति।
अस्मिन् दिने सरस्वतीदेव्याः पूजा भवति । सरस्वतीदेव्याः पूजा प्रतिदिनं भवति किन्तु माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ सरस्वतीदेव्याः विशिष्टा पूजा भवति । सरस्वतीदेव्याः पूजा तु नित्यं करणीयम् एव । महासरस्वतीदेव्याः पूजा माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ भवति ।
भगवती सरस्वती सत्वगुणी अस्ति । इयं वाग्देवी, ज्ञानदेवी, शारदा, गिरा, वाचा, गौ, ब्राह्मी, वाणी, भाषा इत्यपि कथ्यते । अस्याः माहात्म्यं प्रभावः च विशिष्टः अस्ति । सरस्वतीदेव्याः कृपया जनाः ज्ञानिनः, विद्वांसः, मेधाविनः भवन्ति । विद्या बुद्धिः च अस्याः कृपया एव प्राप्येते । वसन्त-पञ्चम्यां व्रतः उपवासः वा कृत्वा विधिपूर्वकं महासरस्वतीपूजा करणीया । शिशूनाम् अक्षरज्ञानस्य आरम्भः अस्मिन् दिने एव करणीयः । कारणं विद्यारम्भाय इदं दिनं पवित्रं मन्यते ।
गृहेषु बालकैः सह यज्ञादिकर्म, जपः, कीर्तनादि कृत्वा सरस्वतीदेव्याः पूजा करणीय़ा । इयं पूजा प्रातःकाले करणीया । प्रातःकाले अस्याः पूजायाः महत्त्वम् अधिकं वर्तते । कलशस्थापनां कृत्वा सरस्वत्याः आह्वानं करणीयम् । गायत्रीमन्त्रेण अपि होमकर्म कर्तुं शक्यते । ’ॐ श्रीं ह्रीं सरस्वत्यै स्वाहा’ इति मन्त्रेण अष्टोत्तरशत(१०८)आहुतयः दातव्याः । सरस्वत्याः १००८ नामभिः पूजां कर्तुं शक्नुमः । पूजायां लेखन्यः, पुस्तकानि च देव्याः समक्षे स्थापनीयानि ।
सरस्वतीपूजापरम्परायाः गृहेषु बालकाः मेधावन्तः, संस्कारवन्तः, यशस्विनः च भवन्ति । तान् बालकान् विद्यार्जनाय विद्यादानाय च प्रेरयितुं शक्नुमः । प्राचीनाः कवयः, ऋषयः, मुनयः च स्वेषां ग्रन्थेषु सर्वप्रथमं महासरस्वतीदेव्याः पूजां कुर्वन्ति स्म । कश्चित् सरस्वती-मन्त्रः अधः प्रदत्तः अस्ति । तस्य नित्यपठनं करणीयम् ।
सरस्वती माया दृष्टा विणा पुस्तकधारिणी।
हंस वाहनसं युक्ता विद्यादानं कराेतुमे ॥











