भारतीयजनतापार्टीति दलस्य राष्ट्रियसम्मेलनं

भारतीयजनतापार्टीति दलस्य द्विदिनात्मकं राष्ट्रियसम्मेलनं सम्प्रति नवदिल्लीनगरस्य भारतमण्डपम् इत्यत्र सम्पन्नम् । अधिवेशने भाजपा- राष्ट्रस्य आशा: विपक्षस्य निराशा इति घोषमालक्ष्य संकल्पः प्रस्तुतः।
द्विदिवसीयेऽस्मिन् सम्मेलने समापनसत्रं सम्बोधयता श्रीमता नरेन्द्रमोदिना प्रोक्तं यत् भारतदेशः गतपञ्चवर्षेषु कृतसङ्कल्पानां पूरणानन्तरम् अग्रिमेषु पञ्चवर्षेषु ‘विकसित-भारतम्’ इत्येतत् लक्ष्यं प्रति अग्रमामी भविष्यति। प्रधानमन्त्री उक्तवान् यत् एतदर्थं प्रथमः न्यासः भविष्यति – भारतीयजनतापार्टीति दलस्य पुनरागमनमिति। भाजपादलीयनेतारः कार्यकर्तारश्च एकीभूय, नूतनया शक्त्या सह उत्साहपूर्वकञ्च अग्रिमाः शतदिवसाः लोकसभायै समर्पयन्तु। यत्र ते सङ्कल्पिताः स्युः यत् समाजस्य प्रत्येकम् अङ्ग यावत् प्राप्नुयुः। न कोऽपि अवशिष्टः स्यादिति धिया तेषाम् अन्त्यस्थ-जनानाम् अपि विश्वासः अर्जनीयमिति। प्रधानमन्त्री उक्तवान् यत् सप्तत्यधिक-त्रिशतम् इत्यस्य लक्ष्य-संकेतं समुल्लंघ्य राष्ट्रियलोकतान्त्रिकसंयुत्या चतुश्शतासनानां लक्ष्यं स्थापनीयमिति ।
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् भारतदेशः अग्रिमेषु पञ्चवर्षेषु ‘विकसित-भारत’ इति लक्ष्यं प्रति अग्रमामी भविष्यति।
अधिवेशने दलस्य वरिष्ठनेता गृहमन्त्री च अमितशाहः अवदत् यत् अस्मात् अधिवेशनात् अनन्तरं दलस्य नेतारः कार्यकर्तारः च प्रधानमन्त्रिणः इमं सन्देशं प्रत्येकं निर्वाचनक्षेत्रं यावत् प्रसारयिष्यन्ति येन निर्धारयिष्यते यत् सप्तचत्वारिंशदुत्तर द्विसहस्रतमं वर्षं यावत् भारतं कीदृशं भविष्यतीति। श्रीशाहः विश्वासं प्रकटितवान् यत् आगामि लोकसभानिर्वाचने मोदीशासनम् पुनः सत्तां प्राप्स्यति, यतो हि जनाः भाजपेति दलपक्षे मतदानाय तत्पराः सन्ति। सः अवदत् यत् लोकसभानिर्वाचनं महाभारतवत् भविष्यति, यस्मिन् एकस्य समूहस्य नेतृत्वं मोदीमहोदयः करिष्यति, अपरसमूहस्य नेतृत्वं विपक्षत्वेन कांग्रेसदलं करिष्यति। श्रीशाहः अवदत् यत् अस्मात् अधिवेशनात् अनन्तरं भाजपा कार्यकर्तारः नेतारः च श्रीमोदी इत्यस्य विकसित भारतस्य संकल्पं सिद्धं कर्तुं निर्वाचनक्षेत्रेषु गमिष्यन्ति। सम्मेलनेऽस्मिन् साधैकादशसहस्रं यावत् प्रतिभागिनः आराष्ट्रात् सम्प्राप्ताः येषु केन्द्रीयमन्त्रिणः, मुख्यमन्त्रिणः, दलपदाधिकारिणः, राज्यमन्त्रिणः सांसदाः विधायकाश्च आसन्।