प्रधानमन्त्री-श्रीकल्किधामः

प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्य सम्भलजनपदे श्री-कल्कि-धाम-मन्दिरस्य शिलान्यासं कृतवान्। प्रधानमन्त्री अद्य लखनऊनगरे उत्तरप्रदेश-वैश्विक निवेशक-सम्मेलनस्य चतुर्थस्य आधारशिला-समारोहस्य उद्घाटनं कृतवान्। कार्यक्रमावधौ प्रधानमन्त्री दश- कोट्यधिकानां चतुर्दशसहस्रं परियोजनानां शुभारम्भं कृतवान्। याः हि साम्प्रतिके समये उत्तरप्रदेश-वैश्विक-निवेशक-सम्मेलनस्य समये समुद्धोषिताः। कार्यक्रमं सम्बोधयन् श्रीमोदी प्रावोचत् अद्य उत्तरप्रदेश: निवेशाय उचितविधये च ज्ञायते । तेनोदीरितं यत् राज्येण अनेन विगतेषु सप्तवर्षेषु द्विगुणी-सर्वकारस्य डबलइंजनइत्यस्य प्रशासनम् अवलोकितम्। प्रधानमन्त्री भणितवान् यत् निवेशकानां समीपे प्रशासनस्य स्थिरानीतिः अस्ति। सम्भाषणात् पूर्व प्रधानमन्त्री सम्भल-जनपदस्य अचोण्डा-कम्बोह-क्षेत्रे श्री-कल्कि-धाम-मन्दिरस्य आधारशिलां स्थापितवान्। एकां सभां सम्बोधयता प्रधानमन्त्रिणा निगदितं यत् एतत् श्री कल्कि-धाम-मन्दिरम् आस्थायाः एकं महत्वपूर्ण- केन्द्रमस्ति।