शिवरात्रि महापर्वस्य हार्दिक्यः शुभाषयाः

पञ्चाङ्गस्य अनुसारं फाल्गुनमासस्य कृष्णपक्षस्य चतुर्दशी तिथिः ८ मार्च दिनाङ्के सायं ०९:५७ वादने आरभ्यते। परदिने मार्चमासस्य ९ दिनाङ्के सायं ०६:१७ वादने समाप्तं भविष्यति। प्रदोषकाले शिवः पूज्यते, अतः उदयतिथिं पालनम् आवश्यकं नास्ति । अतः अस्मिन् वर्षे महाशिवरात्रिव्रतः ८ मार्च २०२४ दिनाङ्के भविष्यति।

माघमासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिपर्व । प्रयागपुष्करः यथा तीर्थराजः इति उच्यते तथैव महाशिवरात्रिः व्रतराजः इति उच्यते ।शिवरात्रि महापर्वस्य हार्दिक्यः शुभाषयाः। एतत् पर्व यद्यपि शैवाणां परमपवित्रं तथापि अन्यैः अपि आचरणीयम् अन्यथा तेषां पूजाफलं नश्यति इति वदन्ति शास्त्राणि ।
शैवो वा वैष्णवो वाऽपि यो वास्यादन्यपूजकः ।
सर्वं पूजाफलं हन्ति शिवरात्रिबहिर्मुखः ॥

एकादश्यां यथा उपवासस्य प्रामुख्यं तथैव शिवरात्र्यामपि उपवासः प्रामुख्यं भजते ।
अस्यामुपवासः प्रधानं न स्नानेन न वस्त्रेण न धूपेन न चार्चया ।
तुष्यामि न तथा पुष्पैः यथा तत्रोपवासतः ।
यो मां जागरयते रात्रिं मनुजः स्वर्गमारुहेत् ॥

शिवरात्र्यां यः उपवासं जागरणं च ज्ञात्वा अज्ञात्वा आचरति सः स्वर्गं गच्छति इति वदन्ति शास्त्राणि । सामन्यतया देवतापूजार्थं दिवासमयः एव प्रशस्तः । किन्तु शिवरात्रिपर्वणि तस्य नामानुगुणं रात्रिरेव प्रशस्तकालः पूजार्थम् । सम्पूर्णम् उपवासं कृत्वा रात्रौ जागरणम् आचरणीयम् । रात्रौ एव पूजा करणीया इति । कलियुगे चतुर्दश्यां रात्रौ केवलं भूमौ सञ्चरन् समस्तस्थावरजङ्गमेषु सङ्क्रमिष्यामि । समग्रे वर्षे कृतं पापं परिहरामि । दिवासमये तद्दिने एवं महिमा न भवति इति महेश्वरः एव अवदत् इति शास्त्रवाक्यम् अस्ति ।
माघमासस्य कृष्णायां चतुर्दश्यां सुरेश्वर ।
अहं वत्स्यामि भूपृष्ठे रात्रौ नैव दिवा कलौ ॥
लिङ्गेषु च समस्तेषु चलेषु स्थावरेषु च ।
सङ्क्रमिष्याम्यासन्दिग्धं वर्षपापविशुद्धये ॥

शिवरात्र्याचरणं स्यात् शिवस्य प्रियं यथा शिवस्य ध्यानानन्दः आत्मगुणसम्पत्तिः अत्यन्तं प्रियौ स्तः । सर्वभूतेषु दया, निरसूया, शुचित्वम्, अनायासः, क्षमागुणः, अकार्पण्यभावः, मङ्गलं, दुराशां विना जीवनम् इत्येतानि एव अष्ट आत्मगुणाः । अहिंसा, सत्यम्, अक्रोधः, ब्रह्मचर्यं च अस्मिन् व्रते अपि आचरणीयम् । पूर्वदिने रात्रौ उपवासं कृत्वा प्रातः नित्यकर्माणि समाप्य शुचिर्भूत्वा निर्विघ्नतया व्रतमिदं परिसमाप्तिं गच्छतु इति प्रार्थनां समर्प्य सङ्कल्पं कुर्वन्ति । शतरुद्रीयं, श्रुतिसूक्तीः, शिवपञ्चाक्षरमहामन्त्रं, पुरुषसूक्तं च वदन्तः पञ्चगव्येन पञ्चामृतेन च शिवलिङ्गस्य अभिषेकं कुर्वन्ति । ध्यानसमाधिरूपम् आन्तरिकपूजया सह आवाहन-आसन-अर्घ्य-पाद्य-आचमनीय-अभिषेक-वस्त्र-उपवीत-गन्ध-पुष्प-धूप-दीप-अर्चन-नैवेद्य-प्रदक्षिणनमस्कार-स्तोत्र-नृत्य-गीत-वाद्यरूपा बाह्यपूजा अपि तद्दिने आचर्यते ।