राजकीयस्नातकोत्तरमहाविद्यालये भारतीयसंस्कृतिज्ञानपरीक्षाया: पुरस्काराणां प्राचार्याद्वारा कृतं वितरणं।

संस्कृतं संस्कृतिं ददाति संस्कृतिः च जीवनं ददाति -“प्रो.जानकीपंवारवर्या”

४९ छात्राः परीक्षायां उत्तीर्णाः अभवन् । जनपदस्तरे महाविद्यालयस्य शिक्षाशास्त्रविभागस्य छात्रेण आकाशसिंहद्वारा प्रथमस्थानं 90% अंकै: सह प्राप्तं । सहैव कलास्नातिकाछात्रया उजमाद्वारा महाविद्यालयस्तरे 83% अंकै: सह प्रथमस्थानं प्राप्तं

वार्ताहर:- कुलदीपमैन्दोला कोटद्वारं

2023-24 वर्षस्य भारतीयसंस्कृतिज्ञानपरीक्षा- शांतिकुंजहरिद्वारस्य पौडीगढ़वालस्य तत्वावधाने राजकीयस्नातकोत्तरमहाविद्यालये कोटद्वारे 3 नवम्बर 2023दिनांके प्राचार्याया: जानकीपंवारवर्याया: मार्गदर्शने सम्पन्ना आसीत् । कोटद्वारस्य राजकीयस्नातकोत्तरमहाविद्यालयस्य विभिन्नविषयाणां शतशः छात्राः पञ्जीकरणं कृतवन्तः, येषु ४९ छात्राः परीक्षायां उत्तीर्णाः अभवन् । जनपदस्तरे महाविद्यालयस्य शिक्षाशास्त्रविभागस्य छात्रेण आकाशसिंहद्वारा प्रथमस्थानं 90% अंकै: सह प्राप्तं । सहैव कलास्नातिकाछात्रया उजमाद्वारा महाविद्यालयस्तरे 83% अंकै: सह प्रथमस्थानं प्राप्तं। प्राचार्ययया प्रो. जानकीपंवारद्वारा सर्वेभ्यः उत्तीर्णछात्रेभ्यः प्रमाणपत्रं दत्तम्, प्राचार्याद्वारा आकाशसिंह: ₹ 700 साक्षाद्धनराशिं च जनपदस्तरस्य प्रमाणपत्रं स्मृतिचिह्नं च प्राप्तवान् तथा च उजमा इत्यस्यै च स्मृतिचिह्नं च प्रमाणपत्रं प्रदत्तं तदनन्तरं उत्तीर्णेभ्य: समस्तेभ्य: छात्रेभ्य: प्रमाणपत्रं वितरितम् अभवत् । अवसरेस्मिन् प्राचार्या जानकीपंवारवर्या सर्वेभ्यः छात्रेभ्यः अभिनन्दनं कुर्वन्ती स्ववक्तव्ये उक्तवती यत् अस्माकं देशस्य संस्कृतिः केवलं छात्रैः एव पुनरुत्थापिता भवति। भारतस्य प्रतिष्ठा संस्कृते संस्कृतिषु च निहिता अस्ति, अत एव संस्कृतं संस्कृतिं ददाति संस्कृतिः च जीवनं ददाति। अपि च, महाविद्यालयस्य कृते अतीव गौरवस्य विषयः अस्ति यत् अस्माकं छात्राः जनपदस्तरस्य महाविद्यालयस्तरस्य च प्रथमस्थानं प्राप्तवन्तः, आगामिषु परीक्षासु च अस्माकं महाविद्यालयस्य छात्राः न केवलं मण्डलस्तरस्य अपितु राज्यपुरस्कारं प्राप्नुयुः इत्याशाषेहम्। उपजनपदकोटद्वारस्य भारतीयसंस्कृतिज्ञानपरीक्षायाः संयोजकः कुलदीपमैन्दोला स्ववक्तव्ये उक्तवान् यत् युवानः स्वसंस्कृतिम् अवगन्तुं एतादृशपरीक्षासु उत्साहेन भागं गृह्णन्ति इति अद्यतनसमाजस्य कृते गौरवस्य विषयः अस्ति। भारतीयसंस्कृति: एव अस्माकं गौरवं। संस्कृतविभागस्य प्रभारी डा.अरुणिमा च परीक्षाप्रभारी डॉ. अभिषेकगोयल: सहैव समस्तविभागानां प्राध्यापकानां सहयोगेन परीक्षासम्पन्ना अभूत् भवतां सर्वेषां कोटिश: धन्यवाद: यतोहि भवतां सहकार्यं विना एतस्या: परीक्षायाः संचालनम् अत्यन्तं कठिनम् आसीत् इति।
संस्कृतविभागस्य प्राध्यापिका डॉ. प्रियम-अग्रवालः स्वविचारं प्रकटयन्ती अवदत् यत् एतादृशस्पर्धासु सर्वेषां छात्राणां भागः भवितव्यः यतोहि एतादृशप्रतियोगितानां माध्यमेन एव चरित्रविकासः सम्भवति। अवसरेस्मिन् महाविद्यालयस्य वरिष्ठप्राध्यापक: एमडीकुशवाहा, प्रो. आशा देवी, प्राध्यापक: रमेशचौहान:, डॉ. अभिषेकगोयल:, श्री कुलदीपमैन्दोला, डॉ.बी.सी.शाह, डॉ. सुषमाथलेडी, डॉ. अजीतसिंह:, डॉ. सुशीलबहुगुणा, डॉ. नवरत्नसिंह:, डॉ. अरुणिमा, डॉ. संदीपकुमार:, डॉ. श्रद्धा, डॉ. सुलेखा घिल्डियाल:, डॉ. हितेन्द्र: बिश्नोई, डॉ. पूनमगैरोला, डॉ. प्रियम-अग्रवाल:, अरुणा चौधरी आदय: महाविद्यालयस्य प्राध्यापका: उपस्थिता: आसन् ।