प्रधानमन्त्री नरेन्द्रमोदी पश्चिमबंगालराज्ये पश्चदशसहस्र-कोटि-रूप्यकाणां विकासात्मक- परियोजनानाम् उद्घाटनं विहितवान्। उक्तवान् च यत् – केन्द्रप्रशासनं विगतेभ्यः दशवर्षेभ्यः बंगालराज्ये विकासस्य अन्तरं दूरीकर्तुं प्रयासान् विहितवत्। असौ पश्चिम- बंगालराज्यस्य नादियाजनपदस्य कृष्णानगरे एतासां परियोजनानां शुभारम्भं कृतवान्। श्रीमोदी अत्रावसरे कथितवान् यत् केन्द्रप्रशासनं पश्चिमबंगाले आर्थिक-विकास-वृत्यवसरयोः सृजनाय गतिं प्रददाति । श्रीमोदिना निगदितं यत् असौ ह्यः सप्त-सहस्र-कोटि-रूप्यकाणां परियोजनानाम् आधारशिलां संस्थापितवान्। असौ अग्रे अवदत् यत् परियोजनाः रेलमार्ग-जलपोतस्थानक- इत्यादिभिः सम्बद्धाः सन्ति। श्रीमोदी प्रावोचत् यत् पश्चिमबंगालराज्यं भारतदेशस्य पूर्वीद्वारत्वेन कार्यं समाचरति। एतस्मिन् द्वारे विकासस्य प्रवेश-बिन्दो: क्षमता विद्यते। प्रशासनम् अस्मिन् क्षेत्रे मार्ग-रेल-जलमार्ग-माध्यमैः सम्पर्क-सौविध्याय मूलभूत-सौविध्यानि विकासयति। प्रधानमन्त्री
पुरुलियाजपनदस्य दामोदार-उपत्यका-निगमस्य रघुनाथपुर-ताप-विद्युत् केन्द्रस्य द्वितीय- चरणस्य आधारशिलां संस्थापितवान्। अत्रावसरे प्रवदन् श्रीमोदी प्रोक्तवान् यत् प्रशासनं वर्तमान-भविष्योर्जा-आवश्यकताः निध्याय बंगालराज्यम् आत्मनिर्भरं निर्मातुं तस्मिन्नेव दिशि कार्यं निष्पादयति। विद्युदुर्जा एकः महत्वपूर्ण घटको विद्यते यः अर्थव्यवस्थायाः प्रत्येकं क्षेत्रं विकास-दिशि नयति। रघुनाथ-ताप-विद्युत्-केन्द्रस्य द्वितीय-चरणस्य इयम् आधारशिला अपि अस्मिन्नेव दिशि उत्यापितः एकः पदक्षेपो विद्यते। अनेन उपक्रमणे राज्ये एकादश-सहस्र-कोटि- रूप्यकाणां निवेशः आगामिष्यति। प्रधानमन्त्री एतदनन्तरं षड्शीत्यधिक-नवदश-शत- कोटिरूप्यकाणां व्ययेन विनिर्मिते राष्ट्रिराजमार्ग-द्वादश इत्याख्ये चतुष्पथस्य शतकिलोमीटरात्मकस्य फरक्का-रायगंज-खण्डस्यापि उद्घाटनं कृतवान्। प्रधानमन्त्री एतदतिरिच्य राज्येऽस्मिन् चत्वारिंशदधिक-नवशत-कोटि-रूप्यकाणां चतस्रः परियोजनाः
राष्ट्राय समर्पितवान्। एताः परियोजनाः विद्यन्ते-दामोदर-मोहिशिला-मार्गयोः द्विगुणीकरणं ,रामपुरबाट-मुराराई-इत्यनयोः मध्ये तृतीया पट्टिका आपणस्य च साउ-अजीमगंज-पट्टिकायाः द्विगुणीकरणम् इत्यादयाः। एतस्मिन् प्रधानमन्त्रिणः कार्यक्रमे पश्चिमबंगालस्य राज्यपालः डॉ. सी.बी. आनन्द बोसः राज्यविधानसभायां विपक्षेनता सुवेन्दु अधिकारी राज्यमन्त्री शान्तनुठाकुरः सांसदः जगन्नाथसरकारः भारतीय-जनता-पार्टीति दलस्य राज्याध्यक्षः सुकान्तो-मजूमदारः च उपस्थिताः आसन्।
तदनन्तरं प्रधानमन्त्री नरेन्द्रमोदी बिहाराज्ये अष्टचत्वारिंशत्-सहस्र कोटि-रूप्यकाणां
विकासात्मक-परियोजनानाम् उद्घाटनं विहितवान्। एतासु परियोजनासु अष्टादश-सहस्र-कोटि- रूप्यकाणां दक्षिण-उत्तर-बिहारं संयोज्यमानायां गङ्गानद्यां षड्पथस्थ सेतुनिर्माणं सम्मिलितं वर्तते। अपराः परियोजनाः रेलमार्ग-नमामि गंगे-इत्यादिभिः संलग्नाः सन्ति।
विगत सप्ताहे प्रधानमन्त्री नरेन्द्रमोदी तेलंगानाराज्यस्य संगारेड्डी-नगरे द्विसप्तति-शत-कोटि-रूप्यकाणां परियोजनाः राष्ट्राय समर्पिवान्। एतासु परियोजनासु रेल-पथ-प्राकृतिक-बातीयेन्धन-नागरिक उड्डयनानां योजनाः समाविष्टाः सन्ति। अत्रावसरे एकां जनसभां सम्बोधयन् प्रधानमन्त्री भणितवान् यत् अद्य अस्मिन् राज्ये तस्य द्वितीयं दिनमस्ति । केन्द्रप्रशासनं तेलंगानायाः विकासे सहायतायै नैरन्तर्येण कार्यं समाचरति । तेनोक्तं यत् असौ राज्यविकासात् राष्ट्रविकासे इत्यस्मिन् मन्त्रे विश्वसिति। प्रधानमन्त्री अग्रे अद्य प्रारम्भितेभ्यः विकासकार्येभ्यः राज्यस्य नागरिकेभ्यः वर्धापनानि अयच्छत्। उक्तवान् च यत् हैदराबादस्थले बेगमपेट-विमानपत्तन-स्थाने नागरिक-विमानन-अनुसन्धान केन्द्रस्य उद्घाटनं विमानन-क्षेत्रे तेलंगानाराज्याय पारितोषिकं वर्तते। देशे विमानन-नवाचाराणां विकासाय एतत् केन्द्र अनुसन्धान-विकासयोः नवीनान् अवसरान् उद्घाटयिष्यति। विकसितभारते आधुनिक-संरचनागत-महत्वे बलं प्रददन् प्रधानमन्त्री कथितवान् यत् अस्मिन् वर्षे वित्तसंकल्पनाप्रपत्रे एतस्य कृते एकादश-लक्ष-कोटिरूप्यकाण्यपि आवण्टितानि । तेन प्रख्यापितं यत् राजमार्ग- एकषष्ट्यधिकैक शतं इत्यस्य कण्डीतः रामसनपल्ली खण्डं यावत् अथच राजमार्ग- सप्तषष्ट्धिकैकशतं इत्याख्यस्य मिर्यालागुडातः कोदडखण्डं यावत् तेलंगाना-आन्ध्रप्रदेशयोः मध्ये यातायात-सौविध्यानि उत्कृष्टानि भविष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदी इण्डियन- ऑयल-पारादीप-इत्यभिनामधेयकस्याः हैदराबाद-उत्पाद-बृहन्नलिकायाः अपि उद्घाटनं कृतवान्।











